________________
A
R
कल्पविचारः
श्रीकल्पकौमुद्यां १क्षणे ॥४ ॥
RITAPulsiRISHAILAIMILAHARIPATHIMIPASHIRIDHellull
तथा व्रतानि-महाव्रतानि,तानि च प्रथमान्तिमसाधूनां पञ्चव,मध्यमजिनयतीनां तु अपरिगृहीतायाः स्त्रियाः परिभोगासम्भवेन स्त्री परिग्रहेऽन्तर्भवति, तेन परिग्रहे प्रत्याख्याते स्त्री अपि प्रत्याख्यातेवेतिपरिज्ञानाच्चत्वारि महाव्रतानीति व्रतकल्पः षष्ठः ६। | तथा ज्येष्ठकल्पो-वृद्धत्वलघुत्वव्यवहारः,सच ऋषभवर्द्धमानजिनयतीनामुपस्थापनाया आरभ्य ज्येष्ठत्वव्यवहारः,इतरजिनयतीनां तु निरतिचारचारित्रत्वादीक्षादिनादेव। अथ पितापुत्रमातापुत्रीराजामात्यादीनां समकालोदृढयोगानां यथायोग्यं ज्येष्ठत्वं,स्तोकान्तरे प्रतीक्षणीयं, अन्यथा गृहस्थत्वे वृद्धत्वे यतित्वे च लघुत्वेनासन्तुष्टेरुत्पादात् , अथ बह्वन्तरं तदा स प्राज्ञस्तव पुत्रादिमहाप्रतिष्ठावान् बहुभ्यो वृद्धो भविष्यतीति पित्रादीननुज्ञाप्य पुत्रादीनां ज्येष्ठत्वं विधेयमिति ज्येष्ठकल्पः सप्तमः ७।
तथा प्रतिक्रमणं-पापानिवर्तनं, तच्चादिमान्तिमजिनमुनीनामवश्यं प्रतिदिनमुभयकालं कर्त्तव्यमेव, द्वाविंशतिजिनमुनीनां तु | कारणे समुत्पन्ने देवसिकरात्रिके प्रतिक्रमणे भवतः, न च पाक्षिकचातुर्मासिकमांवत्सरिकाणीति प्रतिक्रमणकल्पोऽष्टमः ८।
तथा प्रथमान्तिमजिनमुनीनां अवश्यं मासकल्पः कर्तव्यो, दुर्भिक्षमान्धादिकारणे तु पाटकोपाश्रयकोणकसंस्तारकभृमिपरावत्तनेनापि कर्तव्यः, अन्यथा प्रतिबन्धादिदोषसम्भवः, अजितादिजिनयतीनां ऋजुप्राज्ञत्वान्न मासकल्पमर्यादा, ते हि पूर्वकोटि | यावदेकक्षेत्रे तिष्ठन्ति, दोषसम्भवे तु न मासमपीति मासकल्पो नवमः ९ । | तथा पर्युषणाशब्देन सांवत्सरिकपर्वदिनं चतुर्मासकावस्थानं च कथ्यते, तत्र युगप्रधानश्रीकालिकाचार्यादनु भाद्रपदशुद्धचतुर्थी पर्युषणापर्वदिनं, चतुर्मासकावस्थानरूपस्तु द्विविधः-सालम्बनो निरालम्बनश्च, तत्र सांवत्सरिकप्रतिक्रमणादारभ्य कार्तिकचतुर्मासप्रतिक्रमणं यावत् सप्तति७०दिनमानो जघन्यः, उत्कृष्टस्तु चातुर्मासिकः, सालम्बनस्तु मासकल्पकरणानन्तरं पुनस्तत्रैव
॥ ४
॥