________________
श्रीकल्पकौमुद्यां
१ क्षणे ॥ ५ ॥
| क्षेत्रे चातुर्मासिककरणानन्तरं च मासकल्पकरणे पाण्मासिकः, अयं द्विविधो निरालम्बनः सालम्बनश्च स्थविरकल्पिकानामेव, जिन| कल्पिकानां तु निरालम्बनञ्चातुर्मासिक एव । दिनपश्चकपञ्चकवृद्धि गृहस्थज्ञाताज्ञाता दिविचारो मासवृद्धौ च पश्चाशत्सप्तति दिनवि| चारश्च कल्पकिरणावलीतो ज्ञेयः, एवं सर्वत्रापि ज्ञेयं । इत्थं प्ररूपितस्वरूपः पर्युषणाकल्पः आदिमान्तिमजिनतीर्थे निश्चित एव, | मध्यमजिनयतीनां तु अनिश्चितो, यस्मात्ते दोषानुत्पत्तौ पूर्वकोटीं यावदेकक्षेत्रेऽपि तिष्ठन्ति दोषोत्पत्तौ तु न मासमपीति, एवं | महाविदेहेऽपि द्वात्रिंशतिजिनवत् सर्वजिनानां कल्पमर्यादा ज्ञेयेति पर्युषणाकल्पो दशमः १० ॥ ऋषभवीरतीर्थे एते दशापि कल्पा | निश्चिता एव, अजितादितीर्थे तु अचेलक १ औद्देशिक२ प्रतिक्रमण ३राजपिण्ड ४ मास५पर्युपणा६ लक्षणाः षद् कल्पा अनिश्चिताः, अन्ये तु शय्यातर १ चतुर्व्रत २ पुरुषज्येष्ठ ३ कृतिकर्म ४ लक्षणाश्चत्वारः कल्पा निश्चिता एव ।
अथ दशानामपि कल्पानां निश्चितानिश्चितभेदकरणे कारणं तावत् तत्तत्कालोत्पन्ना मनुष्या एव, यतः ऋषभतीर्थसाधूनां ऋजुत्वाद् व्रतादिपालनेऽपि जडत्वाद् व्रतादिशुद्धिर्दुर्लभा, महावीर तीर्थसाधूनां तु वक्रत्वाद् व्रतादिपालनं जडत्वाद् व्रतादिशुद्धिश्वति द्वयमपि दुर्लभं, अजितादिद्वाविंशति २२ जिनसाधूनां तु ऋजुत्वाद्वतादिपालनं प्राज्ञत्वाद्वतादिशुद्धिश्व द्वयमपि सुलभं । अत्रानुक्रमेण दृष्टान्ताःयथा - केचन ऋषभदेवसाधवो बहिर्भूमित आगताः, पृष्टाश्च गुरुभिः - भो इयत्कालं कुत्र स्थिता यूयं तदा ऋजुत्वात्ते प्रोचुः - यथा | नटनाटकं विलोकयन्तः स्थिताः, ततो गुरुभिर्निषिद्धाः अद्य प्रभृति नटनाटकं न विलोकनीयं ते तथैव प्रतिपन्नाः पुनरेकदा गुरुभिस्तथैव पृष्टाः, ऋजुत्वाचे प्रोचुः-नटीनाटकं विलोकयितुं स्थिताः, गुरुभिः शिक्षिताश्च वदन्ति स्म तदा नटो निषिद्धो, न तु नटीति, नटे निषिद्धे नटी तु विशेषतो निषिद्धैव अतिरागहेतुत्वादिति जडत्वान्न ज्ञातवन्त इति १ । पुनरन्यो दृष्टान्तो यथा-एकः कश्चित्
कल्पेषु
नियता
नियतत्वं नटदृष्टांतश्च
॥ ५॥