________________
श्रीकल्पकौमुद्यां
नटादिदृष्टान्ताः
A sailitilim mms
N SAHANI
कुकुणदेशोत्पन्नो वणिक् वृद्धावस्थायां पुत्रकलत्रादिमोहं मुक्त्वा दीक्षां जग्राह, सोऽन्यदा ईर्यापथिकीकायोत्सर्गे चिरं स्थितः, किं चिन्तितमिति गुरुभिः पृष्टे ऋजुत्वात् प्राह-जीवदया चिन्तिता, कथमिति पृष्टे पुनः प्राह-यदा गृहवासेऽवसाम तदा क्षेत्रे वृक्षसूदनादिविधिपूर्वकाणि वर्षाकाले उतानि धान्यानि प्रचुराणि भवन्ति स्म, अधुना तु मम पुत्रा निश्चिन्ता अप्रवीणा निरुद्यमाश्च नैतत् करिष्यन्ति तेन ते वराकाः क्षुधार्ता मरिष्यन्तीति जीवदया चिन्तिता, जीवघातादि विना कृषिकार्य नोत्पद्यते इति जडत्वान्न ज्ञातवान , तत एतच्चिन्तनं साधूनामयुक्तमिति गुरूक्तं श्रुत्वा मिथ्यादुष्कृतं दत्तवानिति कुङ्कणसाधुदृष्टान्तः २। तथा महावीरतीर्थसाधुविपये दृष्टान्तद्वयं, यथा केचन वीरयतयो नटनाटकं विलोक्यागताः पृष्टा निषिद्धाश्च गुरुभिः, पुनरेकदा नर्तकी विलोक्यागतास्तथैव पृष्टाः, वक्रत्वेनान्यान्यन्यानि उत्तराणि ददुः, गुरुभिश्चात्यर्थ पृष्टा नर्तकी प्रोचुः,उपालब्धाश्च जडत्वादृचुः-यथा नटनिषेधावसरे नर्तकी कथं न निपिद्धति प्रथमः, द्वितीयो यथा-कश्चिद् व्यवहारिपुत्रो दुर्विनीतः, कुटुम्बसमक्षं शिक्षितो यत्पित्रादीनां सम्मुखमुत्तरं न देयमिति, वक्रत्वात् हृदये धृतवान् , अन्यदा सर्वेषु कुम्टुबेषु प्रयोजनवशादहिगतेषु गृहद्वारं दच्चा मध्ये स्थितः, आगतेन पित्रा द्वारोद्घाटनार्थ बहवः शब्दाः कृताः, परं शृण्वन्नपि नोद्घाटयति, ततो भित्तेरुपरिभृत्वा मध्यप्रविष्टेन पित्रा पल्यङ्कस्थितो हसन् हक्कितः प्राह-भवद्भिरेव शिक्षितोऽहं यत् पित्रादीनां प्रत्युत्तरं न देयमिति२ । अजितादिद्वाविंशति२२जिनतीर्थसाधूनाश्रित्य तु स एव नटदृष्टान्तो, यथा-केचन अजितादि२२जिनसाधवश्चिरेणागताः पृष्टाश्च गुरुभिः ऋजुत्वान्नटनाटकं प्रोचुः, गुरुभिश्च निषिद्धाः, पुनरेकदा नर्तकी नृत्यन्तीं दृष्ट्वा प्राज्ञत्वाद्विचारितवन्तो-नटनाटकनिषेधवन्नर्तकीनाटकं विशेषतो निषिद्धमेव, अत्यन्तरागहेतुत्वादिति ।।
mainlyImmm INITISHTHANAHANINAHAITANHAITANAHILATHALIA
T॥
६
॥