________________
कल्पविचारः
श्रीकल्पकौमुद्यां १क्षणे ॥ २ ॥
|कल्पाध्ययनं वाचयन्ति, तत्र कल्पः साधूनामाचारः, स च दशभेदस्तद्यथा,-अचेलककल्पः१ औदेशिककल्पः२ शय्यातरपिण्डकल्पः३
राजपिण्डकल्पः४ कृतिकर्मकल्पः५ महाव्रतकल्पः६ ज्येष्ठकल्पः७ प्रतिक्रमणकल्पः८ मासकल्पः९ पयुषणाकल्प१० श् । तत्र अचेल| कत्वं वस्त्ररहितत्वं, तञ्च तीर्थङ्करानाश्रित्य सुरेन्द्रेण स्कन्धस्थापितदेवदृष्यस्थिति यावत् सचेलकत्वं, सर्वेषामपि तद्गमने चाचेल|कत्वं, 'चतुर्विंशतेरपी'त्यादि लिखतां श्रीकिरणावलीकृतामप्ययमेवाशयः, दीपिकाकारस्तु ऋषभवीरयोरचेलकत्वमिति लिखि
तवान् , तत्र तस्यायमभिप्रायो-यजम्बूद्वीपप्रज्ञप्तिसप्ततिशतस्थानकयोर्यथासङ्ख्यं तयोस्तद्गमनस्योक्तत्वेन एतस्यामवसर्पिण्यां | तयोरेवं स्थितमिति, सुबोधिकालेखकस्तु द्वयोरेवाचेलकत्वमित्यलेखीत परमाद्यन्तयोस्तीर्थकृतोस्तीर्थे दशकल्पव्यवस्थावदाचेल
क्यव्यवस्थापि तीर्थकृतोऽधिकृत्य द्वयोरेव भविष्यतीति धिया भ्रान्तः, न हि द्वयोस्तीर्थकृतोः साऽऽचेलक्यव्यवस्था शास्त्रकृत्| सम्मता, "अमिनिकखमंति सत्वे तम्मि चुएऽचेलया होंती"त्यादिवचनविरोधापत्तेरिति दिक, विस्तरस्त्वेतदीयः किरणावलीप|रीक्षायां विलोकनीयः। साधूनां तु प्रथमचरमजिनतीर्थे श्वेतवर्णमानोपेतजीर्णप्रायस्वल्पवस्त्रधारणेन प्रवरवेषाभावादचेलकत्वं, | तथाहि-कटिशिरोवेष्टितवस्त्राः कृतपोतिकाः पुरुषा नदीमुत्तीर्णा वदन्ति यद्-अस्माभिर्वस्त्रं विनैव नदी समुत्तीर्णा, तथा च सत्यपि वस्त्रे तन्तुवायं वदन्ति यद्-अस्माकं शीघ्रं वस्त्रं देहि वयं नग्नाः स्म इति । अजितादिद्वाविंशतिजिनसाधूनां तु ऋजुप्राज्ञत्वादहुमूल्यपञ्चवर्णवस्त्रधारणात् केपाश्चित सचेलकत्वं केषांचिच्च श्वेतवर्णमानोपेतवस्त्रधारणादचेलकत्वमित्यचेलककल्पः प्रथमः १।। तथा औदेशिकं-आधार्मिकं, तच्चाहारवस्त्रपात्रवसतिप्रमुखं, तच्च ऋषभवर्धमानतीर्थे एकं साधुमुद्दिश्य कृतं तत् सर्वेषामपि १ सर्वक्षेत्राणामतिदेशात् सोपचारनिरुपचाराचेलकत्वप्रस्तावाच्चाद्यन्तजिनवस्त्रविचारोऽनर्थकः ।