Book Title: Jiva Vichar Prakarana Kavya with Meaning
Author(s): Shantisuri, Dakshasuri
Publisher: Jain Shreyaskar Mandal Mahesana
________________
गुल्मो मत्कुण-यूके पिपील्युपदेहिका चमत्कोटकाः । ईलिका घृतेलिका-सावा-गोकीटक-जातयः ॥१६॥ गर्दभक-चौरकीटा गोमय-कीटाश्च धान्य-कीटाश्च । कुन्थुगोपालिका ईलिका त्रीन्द्रिया इन्द्रगोपादयः ॥१७॥ चतुरिन्द्रियाश्च वृश्चिको ढिकुणा भ्रमराश्च भ्रभरिकास्तिड्डाः ।। माक्षका दंशा मशकाः कंसारिका-कपिलडोलकादयः॥१८॥ पञ्चेन्द्रियाश्च चतुर्धा नारकास्तिर्यश्चो मनुष्या देवाश्च । नैरयिका सप्तविधा ज्ञातव्याः पृथ्वीभेदेन ॥१९॥ जलचर-स्थलचर-खचरास्त्रिविधाः पञ्चेन्द्रियास्तिर्यश्चश्च । शिशुमारा मत्स्याः कच्छपा ग्राहा मकराश्च-जलचराः ॥२०॥ चतुष्पदा उरःपरिसर्पा भुजपरिसश्च स्थलचरात्रिविधाः । गोसर्पनकुलप्रमुखा बोद्धव्यास्ते समासेन ॥२१॥ . खचरा रोमजपक्षिणश्चर्मजपक्षिणश्च प्रकटाश्चैव । नरलोकाद् बहिः समुद्गपक्षिणो विततपक्षिणः ॥२२॥ सर्वे जल-स्थल-खचराः समर्छिमा गर्भजा द्विधा भवन्ति । कर्माकर्मभूमिजा (महीजा) अन्तीपा मनुष्याश्च ॥२३॥ दशधा भवनाधिपतयोऽष्टविधा वानमन्तरा भवन्ति । ज्योतिष्काः पञ्चविधा द्विविधा वैमानिका देवाः ॥२४॥ सिद्धाः पञ्चदशभेदाः तीर्थातीर्थादिसिद्धभेदेन । एते संक्षेपेण जीवविकल्पाः समाख्याताः ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209