Book Title: Jiva Vichar Prakarana Kavya with Meaning
Author(s): Shantisuri, Dakshasuri
Publisher: Jain Shreyaskar Mandal Mahesana
View full book text
________________
सुरनैरयिकाणां स्थितिरुत्कृष्टा सागरोपमाणि त्रयस्त्रिंशत् । चतुष्पदतिर्यङ्मनुष्याणां त्रीणि च पल्योपमानि भवन्ति ॥ ३६ ॥ जलचरोरगभुजगानां परमायुर्भवति पूर्वकेाटी तु । पक्षिणां पुनर्भणितोऽसङ्ख्येयभागः पल्योपमस्य ॥ ३७ ॥ सर्वे सूक्ष्मा साधारणाच संमूच्छिमा मनुष्याश्च । उत्कर्षेण जघन्येनाऽन्तर्मुहूर्तमेव जीवन्ति ॥ ३८ ॥ अवगाहनाssयुर्मानमेवं संक्षेपतः समाख्यातम् । ये पुनरत्र विशेषा विशेषसूत्रेभ्यस्ते ज्ञेयाः ॥ ३९ ॥ एकेन्द्रियाश्च सर्वेऽसंख्येयोत्सर्पिण्यवसर्पिणीः स्वकाये । उत्पद्यन्ते च्यवन्ते चानन्तकाया अनन्ताः ||४०|| सङ्ख्येयसमान् विकलाः सप्ताष्ट-भवान् पञ्चेन्द्रियतिर्यगमनुष्याः उत्पद्यन्ते स्वकाये नारका देवाश्च न चैव ॥ ४१ ॥ दशधा जीवानां प्राणाः इन्द्रियोच्छवासायुर्बलरूपाः । एकेन्द्रियेषु चत्वारो विकलेषु षट् सप्त अष्टैव ॥४२॥ असंज्ञिसंज्ञिपञ्चेन्द्रियेषु नव दश क्रमेण बोद्धव्याः । तैः सह विप्रयोगा जीवानां भण्यते मरणम् ॥४३॥ एवमनारपारे संसारे सागरे भीमे । प्राप्तोऽनन्तकत्व एवं (प्राणवियोग :) जीवैरप्राप्तधर्मैः ॥ ४४ ॥ तथा चतुरशीतिर्लक्षा संख्या योनीनां भवति जीवानाम् । पृथिव्यादीनां चतुर्णा प्रत्येकं सप्त सप्तैव ॥ ४५ ॥
Jain Education International
For Private & Personal Use Only
1
www.jainelibrary.org
Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209