Book Title: Jinendra Archana
Author(s): Akhil Bansal
Publisher: Todarmal Granthamala Jaipur

View full book text
Previous | Next

Page 139
________________ ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरि-हरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काच-शकले किरणाकुलेऽपि ।।२०।। मन्ये वरं हरि-हरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति। किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ भवान्तरेऽपि ।।२१ ।। स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् __नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्त्ररश्मि प्राच्येव दिग्जनयति स्फुरदंशुजालम् ।।२२ ।। त्वामामनन्ति मुनयः परमं पुमांस मादित्य-वर्णममलं तमसः पुरस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नान्यः शिवः शिव-पदस्य मुनीन्द्र! पन्थाः ।।२३।। त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदित-योगमनेकमेकं ज्ञान-स्वरूपममलं प्रवदन्ति सन्तः ।।२४ ।। बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात् त्वं शंकरोऽसि भुवन-त्रय-शंकरत्वात् । धातासि धीर-शिव-मार्ग-विधेर्विधानाद् व्यक्तं त्वमेव भगवन्पुरुषोत्तमोऽसि ।।२५ ।। तुभ्यं नमत्रिभुवनार्तिहराय नाथ! तुभ्यं नमः क्षिति-तलामल-भूषणाय । ID0010000 जिनेन्द्र अर्चना तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन! भवोदधि शोषणाय ।।२६ ।। को विस्मयोऽत्र यदि नाम गुणैरशेषै स्त्वं संश्रितो निरवकाशतया मुनीश । दोषैरुपात्तविविधाश्रय-जात-गर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ।।२७ ।। उच्चैरशोक-तरु-संश्रितमुन्मयूख माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्त-तमो-वितानं बिम्बं वेरिव पयोधर-पार्श्ववर्ति ।।२८ ।। सिंहासने मणि-मयूख-शिखा-विचित्रे विभ्राजते तव वपुः कनकावदातम् । बिम्ब वियद्विलसदंशुलता-वितानं तुङ्गोदयाद्रि शिरसीव सहस्र रश्मेः ।।२९ ।। कुन्दावदात-चल-चामर-चारु-शोभं विभ्राजते तव वपुः कलधौत-कान्तम् । उद्यच्छशांक-शुचिनिर्झर-वारि-धार । मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ।।३० ।। छत्र त्रयं तव विभाति शशाङ्क-कान्त मुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम् । मुक्ता-फल-प्रकर-जाल-विवृद्ध-शोभं प्रख्यापयत्रिजगतः परमेश्वरत्वम् ।।३१ ।। गम्भीर-तार-रव-पूरित-दिग्विभाग स्त्रैलोक्य-लोक-शुभ-संगम-भूति-दक्षः। सद्धर्मराज-जय-घोषण-घोषकः सन् खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी ।।३२ ।। जिनेन्द्र अर्चना 1000000 1000000000000000२७७ 139

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172