________________
ज्ञानं यथा त्वयि विभाति कृतावकाशं
नैवं तथा हरि-हरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं
नैवं तु काच-शकले किरणाकुलेऽपि ।।२०।। मन्ये वरं हरि-हरादय एव दृष्टा
दृष्टेषु येषु हृदयं त्वयि तोषमेति। किं वीक्षितेन भवता भुवि येन नान्यः
कश्चिन्मनो हरति नाथ भवान्तरेऽपि ।।२१ ।। स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
__नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्त्ररश्मि
प्राच्येव दिग्जनयति स्फुरदंशुजालम् ।।२२ ।। त्वामामनन्ति मुनयः परमं पुमांस
मादित्य-वर्णममलं तमसः पुरस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु
नान्यः शिवः शिव-पदस्य मुनीन्द्र! पन्थाः ।।२३।। त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं
ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदित-योगमनेकमेकं
ज्ञान-स्वरूपममलं प्रवदन्ति सन्तः ।।२४ ।। बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्
त्वं शंकरोऽसि भुवन-त्रय-शंकरत्वात् । धातासि धीर-शिव-मार्ग-विधेर्विधानाद्
व्यक्तं त्वमेव भगवन्पुरुषोत्तमोऽसि ।।२५ ।। तुभ्यं नमत्रिभुवनार्तिहराय नाथ! तुभ्यं नमः क्षिति-तलामल-भूषणाय ।
ID0010000 जिनेन्द्र अर्चना
तुभ्यं नमस्त्रिजगतः परमेश्वराय
तुभ्यं नमो जिन! भवोदधि शोषणाय ।।२६ ।। को विस्मयोऽत्र यदि नाम गुणैरशेषै
स्त्वं संश्रितो निरवकाशतया मुनीश । दोषैरुपात्तविविधाश्रय-जात-गर्वैः
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ।।२७ ।। उच्चैरशोक-तरु-संश्रितमुन्मयूख
माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्त-तमो-वितानं
बिम्बं वेरिव पयोधर-पार्श्ववर्ति ।।२८ ।। सिंहासने मणि-मयूख-शिखा-विचित्रे
विभ्राजते तव वपुः कनकावदातम् । बिम्ब वियद्विलसदंशुलता-वितानं
तुङ्गोदयाद्रि शिरसीव सहस्र रश्मेः ।।२९ ।। कुन्दावदात-चल-चामर-चारु-शोभं
विभ्राजते तव वपुः कलधौत-कान्तम् । उद्यच्छशांक-शुचिनिर्झर-वारि-धार ।
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ।।३० ।। छत्र त्रयं तव विभाति शशाङ्क-कान्त
मुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम् । मुक्ता-फल-प्रकर-जाल-विवृद्ध-शोभं
प्रख्यापयत्रिजगतः परमेश्वरत्वम् ।।३१ ।। गम्भीर-तार-रव-पूरित-दिग्विभाग
स्त्रैलोक्य-लोक-शुभ-संगम-भूति-दक्षः। सद्धर्मराज-जय-घोषण-घोषकः सन्
खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी ।।३२ ।। जिनेन्द्र अर्चना 1000000
1000000000000000२७७
139