Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 2
________________ १ ॥ श्री तपागच्छ-संविग्नशाखाप्रवर्तक योगीश्वर अनुयोगाचार्य पंन्यास सत्यविजयगणिपट्टक्रमानुगत अनुयोगाचार्य पंन्यासश्री भावविजयगणि ॥स्तुत्यष्टकम् ॥ तारुण्ये जयिना स्मरं विजयिनं जित्वाऽपि भोगार्हके । दधे येन महौजसाऽतितरसा जैनेश्वरी आदता ॥ दीक्षाऽक्षाश्ववलप्रसारयमने सुप्रग्रहनोपमा । पंन्यासप्रवरः स भावविजयो भूयाद् भवोत्तारकः आत्मोत्कर्षनिरोधिनोऽगुणगणा यं वीक्ष्य शोकाकुलाः। जाताः श्रीकलिताङ्गमीक्ष्यमदनः शुष्यन्मदो लज्जया। तारुण्योद्भवकामकेलिरचना संत्यज्य रागिस्थिता । पंन्यासप्रवरं सुभावविजयं वन्दे सदा भावतः ॥२॥ प्रज्ञोन्मेषवशादवापि सहसा सिद्धान्तमार्गो दृढः । येनाऽकारि तपोऽन्तरं च विविधं बाह्यं च कृच्छ्राधिकम् । प्राप्वाऽलामि मनुष्यजन्म सुलभं संप्रोज्झता दुष्कथाः। पंन्यासप्रवरेण भावविजयेनाऽदायि बोधामृतम् ॥३॥ दुर्ध्यानोज्झितचेतसे गुणभृते कर्माष्टनाशेच्छवे । सम्यग्दर्शनशुद्धबोधविरतेराराधिनेऽसङ्गिने । संसाराब्धितितीर्षवे निजगुणानादित्सवे साधवे । पंन्यासप्रवराय भावविजयायाहं नमामि ध्रुवम् ॥४॥ यस्माद् बोधमयीं महोदयवतीं धर्मामृतस्यन्दिनीम् । संसारार्णवतारणैकतरणीं दुःखौघप्रध्वंसिनीम् । जीवानन्दविधायिनी भवमृतीरोगापहन्त्री गिरम् । श्रुत्वा शान्तरसप्रदां भविगणाः शान्ति परां लेभिरे ॥५॥ RECERESEASCARSAG द् बोधमयीं महानगुणानादित्सवे साधये । सम्यग्दर्शनशुद्धबोधामावा A 4 %

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 328