Book Title: Hrutparivartanopari Jyotishchandrasya Charitram
Author(s): Ratnachandrajitswami
Publisher: Ashtkoti Bruhatpakshiya Sangh

View full book text
Previous | Next

Page 7
________________ श्रीहत्परिवर्तनोपरि ज्योतिश्चन्द्रस्याऽऽख्यायिका // मंगलाचरणम्-अनुष्टुबू-वृत्तम् ॐ श्रीवीरं नमस्कृत्य, सद्गुरुं भारती तथा हृत्परिवर्तनस्याऽहं, कथये सुकथां गत्ताम् // 1 // | श्रीज्ञानिपुरुषः शास्ने कथितमस्ति यज्जगति स्थिताः सर्वाप्रणिनः कर्माधीनाः सन्ति / अनादितः सुवर्णमृत्तिकावत | संसार-स्थितानामात्मनां कर्मणां च संबंधोऽस्ति // ये कर्मनिमुक्तजीवा, लोकाग्रसिद्धक्षेत्र स्थितास्ते जन्मजरामृत्युरोग शोकाऽऽधिव्याध्युपाधि विमुक्ताः, सिद्धा-परमेश्वरा उच्यन्ते तेत्वपुनर्जन्मानः सन्ति // ये पुनः कर्मांधीनास्ते नरकति| यमनुष्यदेवगतिकल्पचतुर्गतिरूपसंसारस्थिताश्छद्मस्था:-संसारिणः प्रोच्यन्ते, ते च चतुरशीतिलक्षजीवयोनिषु जन्मजरामृत्युरोगशोकादिदुःखान्विताः परिभ्रमणं कुर्वन्ति // चतुर्गतिषु भ्रमणं कुर्वज्जीवानां कर्माणि पराधीनतया क्षुत्तट्शीतातपच्छेदनभेदनादिक्लेशान् परिषह्याऽकामनिर्जरया यथा यथा क्षीयन्ते तथा तथा जीवा उच्चोचतरगति प्राप्नुवन्ति, क्रमेण च मनुष्यभवमधिगच्छन्ति / मनुष्यगति-स्थिताऽऽत्माऽपि स्वकर्मानुसारेण सुखी ..दुःखी वा भवति / शुभकर्मोदये सत्यपि सत्तायामशुभकर्माणि प्रायः सन्त्येव, तथैवाऽशुभकर्मोदये सत्तायां शुभकर्माण्यपि भवन्ति / पापानुबन्धिपुण्यो| दयेन जीवात्मा सर्वेष्टशुभसाधनसम्पन्नः सुखी सबपि दयासत्याऽस्तेयशीलसंतोषसमतानम्रतासरलतौदार्यमैत्रीभावपसेपकारादिसद्गुणविहीनो भवति / नृपादिमानितो, घनयौवनसंपत्तिप्रभृतिगर्वाक्षिप्तश्च भूत्वा निर्दयत्वेन बहुपामराधींवान् संतापयति, घातयति, लुटपति, कारागृहे च क्षेपयति / इत्यादिदुष्कर्माणि कृत्वा धर्मविमुखः सन् प्रान्ते स्वकृतकर्म| फलस्वरूपामतुला वेदनां सोवा मृत्वा च दुर्गतिं याति // कश्चित्पुनस्तादृशः पापानुबन्धिपुण्यवान् मनुष्यः सुखीभूतः, पूर्ववद्गक्षिसोऽनीतिमार्गे नीतो, दुष्कर्माणि कृत्वा, पश्चात् पापघटस्फुटनेन, भूपाधवमानितो, निस्वो, दुःखी च XerRXXXXXXXXXXXX - Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20