Book Title: Hemchandrika Vyakaranam
Author(s): Vijaylavanyasuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 142
________________ ( १२३ ) प्रेषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यो। न्यक्कारपूर्विका प्रेरणा-प्रेषः, कामचारानुमतिः-अनुज्ञा, प्राप्तकालताअवसरः ॥ भवान् कटं करोतु, ग्रामं गच्छ, काले वर्षतु पर्जन्यः सुप्रभूतेन वारिणा ॥३॥ आ न्यायादुत्थानाद् आ न्यायात् संवेशनात्, उ. भयतः सार्धरात्रं वा- अद्यतनः, अनद्यतने भूते ह्यस्तनी ॥ धर्ममकरोत् ॥४॥ : भूते अद्यतनी ॥ अगमद् ग्रामम् ॥५॥ भूतानद्यतने परोक्षेपरोक्षा॥धर्म दिदेश जिनः ॥६॥ आशिषि आशीः पञ्चमी च ॥जीयानाभेयो भगवान्, जयताजिनशासनम् ॥७॥ वत्सर्यति भविष्यन्ती॥ भोक्ष्यति ॥८॥ अनद्यतने वय॑ति श्वस्तनी ॥ कर्ता ॥६॥ सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः, सप्तम्या अर्थो निमित्तं हेतु-फलकथनादिका सामग्री, तत्र कुतश्चिद बैगुण्यात् क्रियाया अतिपतनमनभिनिवृत्तिः क्रियातिपत्तिः, तस्यांसत्यां, एष्यति क्रियातिपत्तिः स्यात्॥

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156