Book Title: Hemchandrika Vyakaranam
Author(s): Vijaylavanyasuri
Publisher: Gyanopasak Samiti
View full book text
________________
( १२१ )
रमो नित्यम्, उपात् तु वा- विरमति, उपरमति, उपरमते ॥ कर्मणि भावे चोक्तवदात्मनेपदमेव ॥२॥ ।। इत्यात्मनेपद-परस्मैपदप्रक्रिया ॥३२॥ ३३- अथ भाव - कर्मप्रक्रिया ॥
भावः क्रिया । भाव- कर्मविहिते शिति क्यः, भावे च युष्मदस्मत्सम्बन्धनिमित्तयोः कर्त-कर्मणोरभावादन्यार्थे एव, साध्यरूपत्वाच्च संख्या योगो नास्तीत्यौत्सर्गिकमेकवचनमेव ॥ त्वया मया अन्यैश्च यते, भूयेत, भूयताम्, अभूयत । स्वरान्त-ग्रह-दृश्हन्भ्यः स्य- सिज्- आशी:- श्वस्तन्यां- 'ञिट्-इ' वा ॥ भावकर्मणो सर्वधातोरद्यतन्यास्ते 'त्रिच्-इ' स्यात् तलुक् च ॥ अभावि, अभाविषताम्, अभविषाताम्, बभूवे, भाविषीष्ट, भविषीष्ट, भाविता, भविता, भाविष्यते, भविष्यते ॥ स्तूयते, स्ताविषीष्ट, स्तोषीष्ट । शय्यते । तनः क्ये आ वा ॥ तायते तन्यते । दीयते, दायिषीष्ट, दासीष्ट । भने वा उपान्त्यस्य लुक् ॥ अभाजि, अभजि ॥

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156