Book Title: Haimanamamalasiloncha
Author(s): Jindevsuri, Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 39
________________ श्रीश्रीवल्लभगणिविनिर्मिता अहं बीजं नमस्कृत्य गुरूणामुपदेशतः । श्रीहैमनाममालायाः शिलोञ्छः क्रियते मया ॥१॥ व्याख्या- 'मया' श्रीजिनप्रभसूरिचरणारविन्दचञ्चरीकेण श्रीजिनदेवसूरिणा 'शिलोञ्छः क्रियते' । शिलोञ्छः इति कोऽर्थः ! उच्यते- “शिलत् उञ्छे" शिल्यते शिलम् कणिशादिकम, श्रीहेमचन्द्राचार्यकृताऽभिधानचिन्तामणिनाममालावृत्त्यवस्थितशब्दजातलक्षणम्, तस्य उञ्छनम्-चुण्टनम्' शिलोञ्छः । यद् वा, शिलोञ्छ:-कणिशादिचुण्टनम्, ततो विवक्षितग्रन्थोऽपि शिलोञ्छ इव शिलोञ्छः । क्रियते-विधीयत इत्यर्थः । कस्याः? इत्याह-'श्रीहैमनाममालायाः' हेम इति "ते लुग् वा" [३।२।१०८] इत्यनेन उत्तरपदस्य लोपे हेमचन्द्रः, यथा 'देवो देवदत्तः' 'सत्या सत्यभामा' इत्यादिवत् । तेन हेमेन हेमचन्द्राचार्येण प्रोक्ता हैमी "तेन प्रोक्ते" [६।३।१८१ ] इति अण, नाम्नां माला नाममाला । हैमी चासौ नाममाला च हैमनाममाला । "पुंवत् कर्मधारये" [ ३।२।५७ ] इति पुंवभावः । श्रिया युक्ता प्रधाना वा हैमनाममाला श्रीहैमनाममाला, तस्याः श्रीहैमनाममालायाः, श्रीहेमचन्द्राचार्यविरचिताऽभिधानचिन्तामणिनाममालाया इत्यर्थः । किं कृत्वा ? 'नमस्कृत्य' नमस्कारं विधाय इत्यर्थः । किम् ? 'अहम्' अर्हति चतुःषष्टिविशिष्टसुरेश्वरकृतां पूजाम् इति अर्हम् । “अः" [उ.२ ] इति अ प्रत्ययः । पृषोदरादित्वात् सानुनासिकत्वम् । अर्हम् इति मन्तो निपातोऽप्यस्ति । ननु अर्हम् इति अव्ययम् स्वरादौ चादौ च न दृष्टम् तत् कथमव्ययम् ! सत्यम्, "इयन्त इति संख्यानं निपातानां न विद्यते । प्रयोजनवशादेते निपात्यन्ते पदे पदे ॥” इति । किंविशिष्टम् अहम् ? 'बीजम्' सिद्धचक्रस्य पञ्च बीजानि तेषु मध्ये च इदम् आदिबीजम् इत्यर्थः । यद् वा, "वीन 'प्रजननकान्तिअसनखादनेषु च" वेति जनयति सुखं ध्यातम् सत् इति, प्रारिप्सितग्रन्थसमाप्तिं वा इति बीजम् । “वियो ज" [ उ.१२७ ] इति जक् प्रत्ययः । इदं हि शास्त्रादौ पठितम् सद् अविघ्नेन शास्त्रसमाप्ति विदधाति, अत एवायमर्थः । यद् वा, इह शास्त्रे श्रीमज्जिनदेवसूरिभिः समग्रदर्शनानुयायी नमस्कारो विदधे । तथाहि “अकारेणोच्यते विष्णू रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तदन्ते परमं पदम् ॥" १.जे.चुटनम् । २.जे. कणिशादिचुटनम् । ३.जे. ज. प्रजनकान्त्यसमखादनेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170