Book Title: Haimanamamalasiloncha
Author(s): Jindevsuri, Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
८८
श्री श्रीवल्लभगणिविनिर्मिता
साम्प्रतं ग्रन्थकृत्स्वनामादिनिवेदिकां ग्रन्थसमाप्ति प्रतिपादयन्नाह -
वैक्रमेदे त्रिविश्वेन्द्रमिते राधाद्यपक्षतौ । ग्रन्थोऽयं ददृभे श्रीमज्जिनदेव मुनीश्वरैः ॥ १३९॥
श्रीर्विद्यते येषां ते श्रीमन्तः ते च ते जिनदेवाश्च श्रीमज्जिनदेवाः, मुनीनाम् ईश्वरा:-अधिपत मुनीश्वराः । यद् वा, मुनिषु साधुषु ईशते - परमैश्वर्य सूरिपदलक्षणं भजन्तीत्येव शीला मुनीश्वराः, सूरय इत्यर्थः । “स्थेशभसपिसकसो वर:" [५/२/८१] इति वरः । श्रीमज्जिनदेवाश्च ते मुनीश्वराश्च श्रोमज्जिनदेवमुनोश्वरास्तैः श्रीमज्जिन देवमुनीश्वरैः । श्रीमदवृद्धेतरखरतरगच्छालकारोदारहारश्रीजिनप्रभसूरिशरण्यवरेण्यचरणसरसीरुह चञ्चरीकप्रकरैरय प्रत्यक्षोपलम्यमानो ग्रन्थः - शास्त्रम् ददृभे - सन्दृब्ध इत्यर्थः । कस्मिन् वर्षे ? इत्याहविक्रमस्य-विक्रमादित्यनृपतेरयं वैक्रमः । " तस्येदम्" [ ६ |३|१६० ] इति अणू । तस्मिन् वैक्रमे विक्रमादित्यनृपतिसम्बन्धिनि अब्दे - संवत्सरे । किम्भूते ? 'त्रि विश्वेन्द्र मिते' "अङ्कानाम् वक्रतो गतिः” इति वचनप्रामाण्यात्, इन्द्रशब्देन चतुर्दशसंख्यायाः संज्ञा । यदुक्तम् — “शकैर्गुरुः सप्त कुभिश्च मन्दः " । इत्यत्र शत्रैरिति चतुर्दशभिरित्यर्थः । विश्वशब्देन भुवनम, भुवनशब्देन त्रीणि । पुनरपि त्रीणि । ततश्च द्वन्द्वे त्रिविश्वेन्द्रास्तैर्मितः - प्रमितः त्रिविश्वेन्द्रमितस्तस्मिन् त्रिविश्वेन्द्रमिते १४३३ वर्षे । पुनः कस्याम् ? 'राधाद्यपक्षतौ' राधः वैशाखस्तस्य आद्यपक्षतिः–कृष्णप्रतिपत् तस्यां राधाद्यपक्षतौ ग्रन्थोऽयं विरचित इत्यर्थः ॥१३९॥
इति श्रीमद्बृहत्खरतरगच्छीय-श्रीजयसागर महोपाध्याय सन्तानीयवाचनाचार्य श्री भानुमेरुगणिशिष्यमुख्य श्रीज्ञानविमलोपाध्यायविनेयवाचनाचार्य श्रीवल्लभगणिविरचितायां
श्रीमनाममाला शिलोव्छ्टीकायां साधारणकाण्डस्य शिलोञ्छः समाप्तः ।
तत्समाप्तौ समाप्ता चेयं श्री हैमनाम
मालाशिलोञ्छटोका |छ । श्रीः ||
१. जे. 'वैक्रमे' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170