SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ८८ श्री श्रीवल्लभगणिविनिर्मिता साम्प्रतं ग्रन्थकृत्स्वनामादिनिवेदिकां ग्रन्थसमाप्ति प्रतिपादयन्नाह - वैक्रमेदे त्रिविश्वेन्द्रमिते राधाद्यपक्षतौ । ग्रन्थोऽयं ददृभे श्रीमज्जिनदेव मुनीश्वरैः ॥ १३९॥ श्रीर्विद्यते येषां ते श्रीमन्तः ते च ते जिनदेवाश्च श्रीमज्जिनदेवाः, मुनीनाम् ईश्वरा:-अधिपत मुनीश्वराः । यद् वा, मुनिषु साधुषु ईशते - परमैश्वर्य सूरिपदलक्षणं भजन्तीत्येव शीला मुनीश्वराः, सूरय इत्यर्थः । “स्थेशभसपिसकसो वर:" [५/२/८१] इति वरः । श्रीमज्जिनदेवाश्च ते मुनीश्वराश्च श्रोमज्जिनदेवमुनोश्वरास्तैः श्रीमज्जिन देवमुनीश्वरैः । श्रीमदवृद्धेतरखरतरगच्छालकारोदारहारश्रीजिनप्रभसूरिशरण्यवरेण्यचरणसरसीरुह चञ्चरीकप्रकरैरय प्रत्यक्षोपलम्यमानो ग्रन्थः - शास्त्रम् ददृभे - सन्दृब्ध इत्यर्थः । कस्मिन् वर्षे ? इत्याहविक्रमस्य-विक्रमादित्यनृपतेरयं वैक्रमः । " तस्येदम्" [ ६ |३|१६० ] इति अणू । तस्मिन् वैक्रमे विक्रमादित्यनृपतिसम्बन्धिनि अब्दे - संवत्सरे । किम्भूते ? 'त्रि विश्वेन्द्र मिते' "अङ्कानाम् वक्रतो गतिः” इति वचनप्रामाण्यात्, इन्द्रशब्देन चतुर्दशसंख्यायाः संज्ञा । यदुक्तम् — “शकैर्गुरुः सप्त कुभिश्च मन्दः " । इत्यत्र शत्रैरिति चतुर्दशभिरित्यर्थः । विश्वशब्देन भुवनम, भुवनशब्देन त्रीणि । पुनरपि त्रीणि । ततश्च द्वन्द्वे त्रिविश्वेन्द्रास्तैर्मितः - प्रमितः त्रिविश्वेन्द्रमितस्तस्मिन् त्रिविश्वेन्द्रमिते १४३३ वर्षे । पुनः कस्याम् ? 'राधाद्यपक्षतौ' राधः वैशाखस्तस्य आद्यपक्षतिः–कृष्णप्रतिपत् तस्यां राधाद्यपक्षतौ ग्रन्थोऽयं विरचित इत्यर्थः ॥१३९॥ इति श्रीमद्बृहत्खरतरगच्छीय-श्रीजयसागर महोपाध्याय सन्तानीयवाचनाचार्य श्री भानुमेरुगणिशिष्यमुख्य श्रीज्ञानविमलोपाध्यायविनेयवाचनाचार्य श्रीवल्लभगणिविरचितायां श्रीमनाममाला शिलोव्छ्टीकायां साधारणकाण्डस्य शिलोञ्छः समाप्तः । तत्समाप्तौ समाप्ता चेयं श्री हैमनाम मालाशिलोञ्छटोका |छ । श्रीः || १. जे. 'वैक्रमे' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy