________________
[ टीकाकारकृता प्रशस्तिः] श्रीमत्खरतरगच्छे चक्रे यैः सन्नवाङ्गवरवृत्तिः । श्रीमन्तोऽभयदेवाचार्या ज्यायां विरेजुस्ते ॥१॥ तत्पट्टे जिनवल्लभसूरिवराः सर्वशास्त्रपारीणाः । तेषां शिष्या आसन् श्रीमज्जिनदत्तसूरीन्द्राः ॥२॥ युग्मम्' । विख्यातयशसस्तेषां पट्टक्रमेण सूरयः । श्रीमच्छ्रीजिनमाणिक्याचार्याः क्ष्मायां विरेजिरे ॥३॥ अकब्बराख्यक्षितिपालपर्षच्-चञ्चत्प्रमाणोक्तिसुलब्धशोभाः । लोकत्रयीव्याप्तयशोविताना राजन्ति ये साधुयुगप्रधानाः ॥४॥ श्रीधर्मराज्यं परिपालयत्सु दुर्वादिदपं च निवारयत्सु । तत्पट्टपूर्वाचलसप्तसप्तिषु तेषूदितश्रीजिनचन्द्रसूरिषु ॥५॥
त्रिभिर्विशेषकम् । अकब्बराख्यक्षितिभृत्समक्षं येन प्रपेदे पदमुत्तमं महत् । गुरोः कराच्छीजिनचन्द्रनाम्नो विराजति श्रीजिनसिंहसूरौ ॥६॥ शुशुभिरे जिनराजमुनीश्वराः खरतराहगणाभ्रदिवाकराः । तदनुभूरिगुणा जयसागरा जगति रेजुरनुत्तमपाठकाः ॥७॥ तेषां शिष्या मुख्या दक्षाः आसन् अदूष्यगुणलक्षाः । श्रीरत्नचन्द्रनामोपाध्यायाः साधुपरिधायाः ॥८॥ तत्पदृस्फुटपद्मप्रकाशनोदारसूरसङ्काशाः । श्रीभक्तिलाभनामोपाध्यायाः शास्त्रकर्तारः ॥९॥ धीमन्तोऽन्तिषदस्तेषां कलाकौशलपेशलाः । समजायन्त राजन्तो ग्रन्थार्थाम्भोधिपारमाः ॥१०॥ चारित्रसारपाठकभावाकरसद्गणीश्वरा दक्षाः ।। श्रीचारुचन्द्रवाचकधुर्याः स्मार्या मुनीशानाम् ॥११॥ तेषां क्रमशः पट्टव्योमाङ्गणशीतरश्मिसङ्काशाः । श्रीभानुमेरुवाचक-जीवकलश-कनककलशाङ्काः ॥१२।। १ जे. ज. प्रतौ 'युग्मं' नास्ति ।
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org