SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीश्रीवल्लभगणिविनिर्मिता तत्र चारित्रसाराख्या उपाध्याया महाजयाः । बभूवुः श्रुतपाथोधिपारीणाः साधुवृत्तयः ॥१३॥ तत्पट्टे समभूवन् विलसत्संवेगरङ्गसलीनाः । वाचकपदप्रधानाः श्रीमन्तो भानुमेहाः ॥१४॥ सौभाग्यौघं निबिड़जडतां व्यञ्जयन्त्यन्तयन्ती, यद्वक्त्राम्भोरुहसुवसतिं प्राप्य गौ लसीति । गम्भीरा ये बृहदुदधयः स्फूर्तिमन्तो महान्तो, गाम्भीर्यादिप्रथितसुगुणैर्वर्ण्यलावण्यपुण्याः ॥१५॥' जयन्ति [ये] मायां समयकथितज्ञानविमलाश्चिरं चञ्चत्पाठकपदवरा ज्ञानविमलाः । लसत्तत्पट्टे [स]वचनरचनारञ्जितजना महावादिवाजप्रमितिकथनादाप्तविजयाः ॥१६॥ युग्मम्। वैराग्यरससंलीनास्तद्गुरुभ्रातरोऽधुना । विजयन्ते महान्तः श्रीतेजोरङ्गगणीश्वराः ॥१७॥ तेषां जयन्ति जयिनः सुनया विनेयाः। सद्भागधेयमतिमत्प्रतिवाद्यजेयाः । श्रीज्ञानमुन्दरसुधी-जयवल्लभाषा वाग्देवताप्रतिमसत्प्रतिभाप्रधानाः ॥१८॥ श्रीज्ञानविमलपाठकसत्पादाम्भोजचश्चरीकेण । श्रीवल्लभेन रचिता शिलोच्छशास्त्रे शुभा टीका ॥१९॥ हैमव्याकृति-हैमोणादिग्रन्थादि-नामकोशांश्च । दृष्ट्वा विमृश्य बाढं प्रसादमासाद्य पूज्यानाम् ॥२०॥ वेदेन्द्रियरसपृथ्वीसंख्ये वर्षे सुनागपुरनगरे । मधुमासाद्ये पक्षे मूलार्के सप्तमीतिथ्याम् ॥२१॥ त्रिभिर्विशेषकम् १. प्रा. गाम्भीर्यस्थैर्यगुणप्रमुखैर्वर्ण्यलावण्यपुण्याः । जे. गाम्भीर्यादिप्रविततमुगुणैवयंलावण्या पुण्याः । २. प्रा. विदधे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy