________________
हैमनाममालाशिलोग्छीपिका शिलोब्छाभिधसन्नामकोशे वृत्ति वितन्वता । मयाऽलीकमिह प्रोक्तं यत् किञ्चिद् बुद्धिमान्धत्तः ॥२२॥ मयि प्रसादमाधाय शोधनीयं तदुत्तमैः । कर्त्तव्या तत्र नोपेक्षा विद्वद्भिविशदाशयैः ॥२३॥
युग्मम् । यतःगच्छतः स्खलनं क्वापि प्रमादादेव जायते । हसन्ति दुर्जेनास्तत्र समादधति सज्जनाः ॥२४॥ अर्वाचीनविचक्षणविनिर्मितां व्याकृतिं विमृश्येति । नोपेक्षां कुरुत बुधा ग्रन्थान् संवीक्ष्य यदृब्धान् ॥२५॥ श्रीपार्श्वनाथदेवश्रीजिनदत्त-जिनकुशलसूरीणाम् । सौम्यदृशाऽधीयानानां स्यादेषेह सद्बुद्धयै ॥२६॥ यावद् वार्द्धि-मही-मेरु-तारा-तारेश-भास्कराः । जयन्त्येते शिलोञ्छस्य तावन्नन्दतु दीपिका ॥२७॥ त्रयोदशशतान्येवं ग्रन्थमानं विनिश्चितम् । अस्याः शिलोगछटीकाया अनुमित्या कृतं शुभम् ॥२८॥
। इति प्रशस्तिः समाप्ता । प्रन्थानम् ।।१३००॥ श्रीरस्तु ॥ श्रीः ॥ श्रीः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org