________________
८७
हैमनाममालाशिलोञ्छदीपिका दिष्टया समुपजोषम्
दिशति दिष्ट्या “वृमिथिदिशिभ्यः०" [उ. ६०१] इति ष्ट्यादिः 'आ' प्रत्ययः । यथा--दिष्ट्या ते पुत्रो जातः । “जुषी प्रीतिसेवनयोः" समुपजुष्यते समुपजोषम् । बाहुलकाद् अम् । यदाह-दिष्ट्या समुपजोषं च सानन्दे । यथा-समुपजोष वर्तते । उपजोषमपि ।
सर्वदा सदा सनत् सनात् ॥१३७॥ सर्वस्मिन् काले सर्वदा । “किम्यत्तत्सर्वैकान्यात् काले दा" [७।२।९५] इति दा प्रत्ययः । सदा, अधुना, इदानीम् , तदानीम्, एतहीति सर्वशब्दाद् दा प्रत्ययः 'स'भावश्चास्य । “षणूयी दाने" सनोति सनत् सनात् । उभावपि "संश्चद्वेह त्साक्षादादयः" [उ. ८८२] इति कत् प्रत्ययान्तौ निपात्येते । यथासनत्कुमारः, सनात्कुमारः, सदमपि ॥१३६॥
निर्भरे च स्वती
निःशेषेण भरोऽत्र निर्भरम्-भृशम्, तत्र । सुनोतेः क्विपि, नागमाभावे सु । यद् वा “शुभि दीप्तौ” “शुभेः स च वा” [उ. ७४३] इति डित्युकारे सादेशे च सु । यथा-सुषुप्तम्, सुषिक्तम् । अतते: “पदिपठि." [उ. ६०७] इति इ प्रत्यये अति । यथा-अतिकृतम्, अतीसारः, अतिवृष्टिः इति ।
हेतो येन तेन च कीर्तितौ । हिनोति वर्द्धते हेतुः । पुंलिङ्गः । तत्र । हेतौ कारणे "कृसिकमि०" [उ. ७७३] इति तुन् । येन तेन इत्येतौ विभक्त्यन्तप्रतिरूपको निपातौ । यथा-"येन दाता तेन ग्लाध्यः' इत्यादि । कीर्तितौ-कथितौ इत्यर्थः । अहो सम्बोधने ऽपि
नपूर्वात् जुहातेविचि, अहो । यथा-'अहो देवदत्त' इत्यादि सम्बोधने सम्बोधनार्थे ।
इति षष्ठः काण्डः शिलोब्छितः ॥१३८॥ इति अमुना प्रकारेण षष्ठः-पण्णाम् संख्यापूरणः काण्डः श्रीहैमनाममालाशिलोञ्छस्य अधिकारः शिलोञ्छितः-शिलोञ्छो जातोऽस्येति शिलोञ्छितः, शिलोच्छीकृत इत्यर्थः । तारकादित्वाद इतः ॥१३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org