________________
श्रीश्रीवल्लभगणिविनिर्मिता
अटाटाऽटया पर्यटनम्
कुटिलम् अटनम् अटाटा । “शंसि-प्रत्ययात्" [५।३।१०५] इति अः। अटनम् अट्या । "आस्यटि." [५।३।९७] इति क्यप् । यद् मनु:
"तौर्यत्रिकं वृथाऽट्या च कामजो देशको गुणः” । इति । पर्यट्यते पर्यटनम् । अनट् ।
आनुपूर्व्यमनुक्रमे ॥१३५॥ अनुपूर्वस्य भावः आनुपूर्व्यम् । “वर्णदृढादिभ्यष्ट्यण च वा" [१।५९] इति ट्यण् । अनुक्रमणम् अनुक्रमः, तत्र ॥१३५॥ परीरम्भोऽपि संश्लेषे स्यात्
"रभि राभस्ये" परिरम्भणम् परीरम्भः । “घञ्युपसर्गस्य." [३।२।८६] इति दीर्घत्वम् । संश्लेषणम् संश्लेषः, आलिङ्गनम् तत्र ।
उद्घातोऽप्युपक्रमे । उद्धननम् उद्घातः । घञ् प्रत्ययः । “णिति घात्" [४।३।१००] इति हन्तेर्घात् इत्ययमादेशः । उपक्रमणम् उपक्रमः, आरम्भस्तत्र । जातौ जातमपि जायतेऽस्यां जातिः, तत्रे । जायतेऽस्मिन् जननम् वा जातम् ।
स्पर्धा सङ्घर्षोऽपि "स्पर्द्धि सङ्घर्षे" सङ्घर्षः, पराभिभवेच्छा । स्पर्द्धनम् स्पर्धा । "क्टो." [५।३।१०६] इति अः । “घृषू सङ्घर्षे" सङ्घर्षणम् सङ्घर्षः ।
अथ विक्रिया ॥१३६॥ विकारो विकृतिश्चापि
विक्रियते विक्रिया । "कृगः श च वा" [५।३।१००] इति श प्रत्ययः । विकरणम् विकारः । विक्रियते विकृतिः । 'स्त्रियां क्तिः" [५।३।९१] इति क्तिः ।
विलम्भस्तु समर्पणम् । "डुलभिष् प्राप्तौ” विलम्भनम् विलम्भः । घञ् प्रत्ययः । “उपसर्गात् खलघञोश्च" [४।४।१०७] इति नोऽन्तः । समर्प्यते समर्पणम् ।
१ जे. 'तत्र' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org