________________
हैमनाममालाशिलोञ्छदीपिका प्रकाश्यते स्म प्रकाशितम् , तत्र । प्रादुष्क्रियते स्म प्रादुष्कृतम् । “निर्बहिराविः." [२।३।९] इति षत्वम् ।।
अवज्ञायामसूक्षणम् ॥१३२॥ बुधैरवमाननावगणने अपि कीर्तिते ।
अवज्ञानम् अवज्ञा, तस्याम् । " उक्ष सेचने" न सुष्टु उक्षणम् अस्य असूक्ष णम् । अवमाननम् अवमानना । अवगणनम् अवगणना । “णि-वेत्यासश्रन्थग्रन्थघट्टवन्देरनः" [५।३।१११] इति अनः । अन्दोलनमपि प्रेक्षा अन्दोल्यते अन्दोलनम् । अनट् । प्रेङ्क्षणम् प्रेङ्खा । "इखु गतौ" अल् प्रत्ययः ।
अथोदस्तमप्युदञ्चितम् ॥१३३॥ उदस्यते स्म उदस्तम् । उदञ्च्यते स्म उदञ्चितम् । अर्ध्वक्षिप्तम् ॥१३३॥ भिदा भित्
भेदनम् भिदा । “भिदादयः" [५।३।१०८] इति अङ् । भेदनम् भित् । "क्रुत्सम्पदा०" [५।३।११४] इति क्विप् । भिदिरः, भेदः, दल्लः, भेदनम् च ।
चोदितमपीरिते "चुदण् सञ्चोदने” सञ्चोदनम् नोदनमित्यर्थः । चोद्यते स्म चोदितम् । "ईरण क्षेपणे" ईर्यते स्म ईरितम्, क्षिप्तम् तत्र ।
ऽथाऽङ्गीकृते पुनः। कक्षीकृतं स्वीकृतं च
__ अनङ्गम् अङ्गं क्रियते स्म अङ्गीकृतम्, तत्र । अकक्षा कक्षा क्रियते स्म कक्षीकृतम् । अस्वम् स्वम् क्रियते स्म स्वीकृतम् ।
छिन्ने छातमपि स्मृतम् ॥१३४॥ छिद्यते स्म छिन्नम्, तत्र । "छोंच छेदने" छायते छातम् । “छाशोर्वा" [४|४|१२] इति ते साधुः ॥१३४।। प्राप्ते विन्नम् प्राप्यते स्म प्राप्तम्, तत्र । “विद्लँत् लाभे" विद्यते स्म विन्नम् ।
विस्मृतं च भवेत् प्रस्मृतमित्यपि । विस्मयते स्म विस्मृतम्, विगतम् स्मृतमत्र वा । प्रस्मयते स्म प्रस्मृतम्, प्रगतं स्मृतम्-स्मरणम् अत्रेति वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org