________________
श्रीश्रीवल्लभगणिविनिर्मिता
अन्तिकस्य नेद इत्यादेशः, ततो “गुणाङ्गाद्वेष्ठेयसू” [७|३|९] इति 'इयसु' प्रत्ययः । अतिशयेन अन्तिकं अन्तिकतमम्, तत्र । “प्रकृष्टे० " [७/३/५] इति तमप् । एकाकिन्यवगणोऽपि
एक एव एकाकी, असहाय इत्यर्थः । तत्र । " एकादाकिन् चासहाये" [ ७|३|२७] इति साधुः । अवगतो गणो अस्य अवगणः । यद् भागुरि:" एकाकी स्यादवगणः” 1
प्राप्यादौ प्रकीर्तितम् ॥१३०॥ प्राश्चति प्राक् । नलोपः । प्राञ्चौ प्राञ्चः । आदीयते प्रथमतया इति आदिः । पुंलिङ्गः । “उपसर्गाद् दः किः " [५।३।८७] इति कः तत्र ॥ १३० ॥ मध्यमे मध्यन्दिनं च
मध्ये जातं मध्यमम् । “मध्यात् मः” [६ | ३ | ७६ ] इति मः । मध्ये भव मध्यन्दिनम् । “मध्याद् दिन-ण-ईया मोऽन्तश्च" [६ | ३ | १२६ ] इति दिनण् प्रत्ययः, 'म'आगमश्च, मतान्तरेण वृद्धयभावः । पक्षे माध्यन्दिनम् ।
निरर्गलमनले । निर्गता अर्गला अस्य निरर्गलम् । नास्ति अर्गलाऽस्य अनर्गलम् । तत्र । बहुरूपपृथग्रूपनानाविधाः पृथग्विधे ॥ १३१ ॥
बहु रूपम् अस्य बहुरूपः । पृथक् रूपम् अस्य पृथगुरूपः । नाना- अनेकः विधः प्रकारोऽस्य नानाविधः । पृथग्विधोऽस्य पृथग्विधः तत्र ॥१३१॥
झम्पा झम्पोऽपि
"झम् अदने " झमति झम्पा । " पम्पाशिल्पादय:" [उ. ३००] इति पान्तो निपात्यते । स्रोलिङ्गोऽयम् । पुंसि अन्ये । यदाह - 'झम्पः सम्पातपाटवम्' [] इति । अथ छन् छादिताऽपिहिते अपि ।
छाद्यते स्म छन्नम्, तस्मिन् छन्ने । छाद्यते स्म छादितम् । उभावपि "णौ दान्तशान्त०" [४|४|७४ ] इति विकल्पेन के निपात्येते निपातनाच्च इडभावे छन्नम्, पक्षे छादितम् इति । " डुधांगक् धारणे" अपिधीयते स्म अपिहितम् । “धागः " [ ४|४|१५] इति तादौ प्रत्यये परे 'हिः' आदेशः । “वाडवाऽप्योस्तनि०" [३॥२॥ १५६] इति विकल्पेन 'पि' आदेशे । पिहितम् इति तु अभिधानचिन्तामणौ उक्तमेव । प्रकाशिते प्रादुष्कृतम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org