________________
८३
खण्डलं चापि खण्डवत् ॥ १२८ ॥
,
खण्डम् लाति खण्डलम् खण्डम् अस्त्यस्य वा । सिध्मादित्वात् लः । खण्ड्यते वा । “मुरलोरल०" [उ.४७४] इति अले निपात्यते । खण्डयते खण्डः । पुंक्लीबलिङ्गः । वदर्थः पूर्ववद् भावनीयः ॥ १२८॥
हैमनाममालाशिलो ञ्छदीपिका
मलीमसे कल्मषं च
मलोऽस्त्यस्य मलीमसम्, मलिनम् । "मलाद् ईमसरच" [ ७ । २ । १४ ] इति ईमसः प्रत्ययः । तत्र । “कलि शब्दसंख्यानयोः " कलते कल्मषम् । “कलेर्मषः " [उ. ५६२ ] इति मषः ।
निकृष्टे याव्यरेपसी ।
निकृष्यते निकृष्टम्-अधमम्, तत्र । याप्यते निर्गुणत्वात् याप्यम् । “जपादीनां पोव:" [ २ । ३ । १०५ ] इति पस्य वत्वे याव्यम् । अन्तस्थीयादिः । " श् गतिरेषणयोः " रीयते रेपः । " रीवृभ्यां पस्" [ उ. ९८१] इति पस् । सकारा - न्तोऽयम् ।
लडहं रमणीयं च रम्ये
“ललण् ईप्सायाम्” ललयति ललहः । डलयोरैक्ये लडहः । “कुपकटिपटिमटि०” [ उ. ५८९ ] इत्यादिना अटः । यदाह गौड :
"मनोज्ञं मञ्जु मञ्जुलं लडहं रमणीयं च ।" इत्यादि ।
रम्यते तेन रमणीयम् । “तव्याऽनीयौ ” [ ५ । १ । २७ ] इति अनोयः । रमयते मनो रम्यम् - मनोहरम्, तत्र । “भव्यगेयजन्यरम्य ० " [ ५ । १ । ७ ] इति साधुः । हर्यतः, दृशीकम् रुम्रः, धुवकः, कमरः, उशिक्, भिल्मम्, शौभुशुभः, कुमुलः, शोभुशुभश्च ।
नित्ये सदातनम् ॥ १२९॥
शाश्वतिकं च
नित्यम् भवं नित्यम् । “नेर्ध्रुवे" [६।३।१७] इति व्यब्, तत्र । सदा भवं सदातनम् । " सायंचिरं०" [६|३|८८] इति तनट् । शश्वद् भवं शाश्वतिकम् । “वर्षाकालेभ्यः [६।३।८०] इति इकण् ।
Jain Education International
नेदीय इत्यन्तिकतमे स्मृतम् ।
अतिशयेन अन्तिकम् नेदीयः । " बाढान्तिकयोः साध-नेदौ " [ ७|४|३७] इति
For Private & Personal Use Only
www.jainelibrary.org