SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रोश्रीवल्लभगणिविनिर्मिता "गर्ज अव्यक्ते' शब्दे" गर्जनम् गर्जः । अल् । “भीषिभूषि०" [५।३। - १०९] इति बहुवचनाद् अङि प्रत्यये गर्जा । हस्तिध्वनिनाम्नी । मद्रोऽपि मन्द्रवत् । "मदैच् हर्षे" माद्यति मध्यताराभ्यां मद्रः । “भोवृधिरुधि०" [उ.३८७] इति रः । “मदुङ् स्तुत्यादिषु" मन्यते मध्यताराभ्यां मन्द्रः, गम्भीरस्वरः "भीवृधि." [उ.३८७] इत्यादिना रः । वदर्थः पूर्ववद् भावनीयः । आकरो निकरे आकीर्यते आकरः । अल् । निकीर्यते निकरः समूहस्तत्र । भुभुरः, शिशिरः, समिथम् च । युग्मे जकुटः “युजिच् समाधौ” युज्यते युग्मम् । “तिजियुजेरी च" [उ.३४५] इति किद् मः, धातोर्जस्य च गत्वम् । जायते जकुटः । 'नर्कुटकुक्कुटो०' [उ.१५५] इति उटे निपात्यते । पुलिङ्गः । यदाह गौडः वार्ताककुसुमे क्लीबं जकुटो यमले शुनि । द्वन्द्वमपि । अथ कनीयसि ॥१२७॥ कनिष्ठम् अतिशयेन अल्पम् कनीयः, कनिष्ठम् । “गुणाङ्गाद् वेष्ठेयसू" [७३।९] इति 'इयसु' प्रत्ययः, 'इष्ठ' प्रत्ययश्च । “अल्पयूनोः कन् वा" [७।४।३३] इति अल्पशब्दस्य 'कन्' आदेशः । अत्यल्पनाम्नी । विग्रहः शब्दप्रपञ्चे विग्रहणम् विगृह्यते वा विग्रहः । अल् प्रत्ययः । शब्दस्य प्रपञ्चः-विस्तरः शब्दप्रपञ्चः तत्र । निखिले पुनः । स्यान्निःशेषमनूनं च निवृत्तम् खिलात्-शून्यात् निखिलम् समस्तम् , तत्र । निवृत्तः शेषान्निसर्गतः शेषोऽस्य वा निश्शेषम् । नास्ति ऊनमस्य अनूनम् । १. जे. ज. 'अव्यक्ते' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy