________________
श्रीश्रीवल्लभगणिविनिर्मिता अहं बीजं नमस्कृत्य गुरूणामुपदेशतः ।
श्रीहैमनाममालायाः शिलोञ्छः क्रियते मया ॥१॥ व्याख्या- 'मया' श्रीजिनप्रभसूरिचरणारविन्दचञ्चरीकेण श्रीजिनदेवसूरिणा 'शिलोञ्छः क्रियते' । शिलोञ्छः इति कोऽर्थः ! उच्यते- “शिलत् उञ्छे" शिल्यते शिलम् कणिशादिकम, श्रीहेमचन्द्राचार्यकृताऽभिधानचिन्तामणिनाममालावृत्त्यवस्थितशब्दजातलक्षणम्, तस्य उञ्छनम्-चुण्टनम्' शिलोञ्छः । यद् वा, शिलोञ्छ:-कणिशादिचुण्टनम्, ततो विवक्षितग्रन्थोऽपि शिलोञ्छ इव शिलोञ्छः । क्रियते-विधीयत इत्यर्थः । कस्याः? इत्याह-'श्रीहैमनाममालायाः' हेम इति "ते लुग् वा" [३।२।१०८] इत्यनेन उत्तरपदस्य लोपे हेमचन्द्रः, यथा 'देवो देवदत्तः' 'सत्या सत्यभामा' इत्यादिवत् । तेन हेमेन हेमचन्द्राचार्येण प्रोक्ता हैमी "तेन प्रोक्ते" [६।३।१८१ ] इति अण, नाम्नां माला नाममाला । हैमी चासौ नाममाला च हैमनाममाला । "पुंवत् कर्मधारये" [ ३।२।५७ ] इति पुंवभावः । श्रिया युक्ता प्रधाना वा हैमनाममाला श्रीहैमनाममाला, तस्याः श्रीहैमनाममालायाः, श्रीहेमचन्द्राचार्यविरचिताऽभिधानचिन्तामणिनाममालाया इत्यर्थः । किं कृत्वा ? 'नमस्कृत्य' नमस्कारं विधाय इत्यर्थः । किम् ? 'अहम्' अर्हति चतुःषष्टिविशिष्टसुरेश्वरकृतां पूजाम् इति अर्हम् । “अः" [उ.२ ] इति अ प्रत्ययः । पृषोदरादित्वात् सानुनासिकत्वम् । अर्हम् इति मन्तो निपातोऽप्यस्ति । ननु अर्हम् इति अव्ययम् स्वरादौ चादौ च न दृष्टम् तत् कथमव्ययम् ! सत्यम्,
"इयन्त इति संख्यानं निपातानां न विद्यते ।
प्रयोजनवशादेते निपात्यन्ते पदे पदे ॥” इति । किंविशिष्टम् अहम् ? 'बीजम्' सिद्धचक्रस्य पञ्च बीजानि तेषु मध्ये च इदम् आदिबीजम् इत्यर्थः । यद् वा, "वीन 'प्रजननकान्तिअसनखादनेषु च" वेति जनयति सुखं ध्यातम् सत् इति, प्रारिप्सितग्रन्थसमाप्तिं वा इति बीजम् । “वियो ज" [ उ.१२७ ] इति जक् प्रत्ययः । इदं हि शास्त्रादौ पठितम् सद् अविघ्नेन शास्त्रसमाप्ति विदधाति, अत एवायमर्थः । यद् वा, इह शास्त्रे श्रीमज्जिनदेवसूरिभिः समग्रदर्शनानुयायी नमस्कारो विदधे । तथाहि
“अकारेणोच्यते विष्णू रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तदन्ते परमं पदम् ॥"
१.जे.चुटनम् । २.जे. कणिशादिचुटनम् । ३.जे. ज. प्रजनकान्त्यसमखादनेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org