________________
हैमनाममालाशिलोज्छदीपिका
इति श्लोकेन 'अर्हम्' शब्दस्य विष्णुप्रभृतिदेवतात्रयाभिधायित्वेन लौकिकागमेष्वपि अर्हम् इति पदं उपनिषद्भूतम् इत्यावेदितं भवति । 'तदन्ते परमं पदम्' इति तुर्य पादस्य अयमर्थः — तस्य अर्हम् शब्दस्य अन्ते उपरितनप्रदेशे, पदम् - सिद्धिशिलारूपम्, तदाकारत्वात् अनुनासिकरूपा कलाऽपि परमं पदम् इत्युक्तम् । कस्मात् मया शिलोञ्छः क्रियते ? इत्याह- 'गुरूणाम् ' गृणन्ति उपदिशन्ति अनेक शास्त्रतत्त्वम् इति गुरवः, “कृगृऋत उर् च [उ.७३४] इति कित् उः । तेषां गुरूणाम् श्रीमच्छ्रीजिनप्रभसूरि सूरीश्वराणाम् 'उपदेशतः ' उपदेशनम् उपदेश: अनुज्ञा तस्मात् उपदेशतः- आदेशात् इत्यर्थः । इति प्रथम श्लोकार्थः ॥ १ ॥
अथ तावदादौ देवाधिदेवकाण्डस्य शिलोञ्छमाह
सर्वीय इत्यपि जिने
सर्वेभ्यः प्राणिभ्यो हितः सर्वीयः, "तस्मै हिते” [ ७|१|३५ ] इति हितेऽर्थे उपकारकेऽर्थे ईयः प्रत्ययः । जयति रागद्वेषमोहान् इति जिनः, "जीणशीदीबुध्यविमभ्यः कित्" [ उ.२६१ ] इति किद नः प्रत्ययः, तत्र । विधाः वेधाश्च सान्तौ इमौ । "जिभूवदि " [ उ. २२१ ] इति बहुवचनाद टित् अन्त प्रत्यये अर्हतो
अर्हन्तः क्षपणको जिनः " इति विक्रमादित्यकोषः । शम्भवे सम्भवोऽपि च ।
शम् - सुखम् भवति अस्मिन् स्तुते इति शम्भवः, तत्र । गर्भगतेऽप्यस्मिन्नभ्यधिकविविध सस्यसम्भवात् सम्भवः । समन्ताद् भवः श्रेयो अस्माद अस्मिन् स्तुते इति वा सम्भवः । सम्भवति सुखम् अस्माद् वा । "अच्" [ ५ | १ |४९ ] इति अच् ।
श्रीसुव्रते मुनिरपि
शोभनानि व्रतानि अस्येति सुव्रतः । यद् वा, अस्मिन् गर्भस्थिते जननी सुत्रता जातेति सुव्रतः । श्रिया - सकलत्रिभुवनजनमनश्चमत्कारकारिमनोहारि परमार्हन्त्यमहामहिम विस्तारिस्पष्टाष्टप्रातिहार्यशोभया चतुस्त्रिंशदतिशयविभूत्या वा समन्वितः सुव्रतः श्रीसुव्रतः, तत्र श्रीसुव्रते - मुनिसुव्रततीर्थकरनाम्नि । “मनिंचू ज्ञाने" मन्यते जगतस्त्रिकालावस्थाम् इति मुनिः । “ मनेरुदेतौ चास्य वा " [ उ.६१२ ] इति इ प्रत्यय उपान्त्यस्य च उत्वम् । मुनिसुव्रतैकदेशो वा मुनिः । ' भीमो भीमसेन' इति न्यायात् ।
नेमौ नेमीत्यपीष्यते ॥ २ ॥
Jain Education International
इ
""
For Private & Personal Use Only
www.jainelibrary.org