SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीश्रीवल्लभगणिविनिर्मिता धर्मचक्रस्य नेमिवद् नेमिः, नयति सुखम् भक्तजनानाम् इति वा नेमिः । “नी सावृयुशवलिदलिभ्यो मि:" [ उ. ६८७ ] इति मिः । नेमिः नेमिनाथो जिनः, तत्र । म:- संयमरूपा मर्यादा सः अस्यास्तीति नेमी । नीयते श्रेयोऽनेनेति वा नेमी' । “बहुलम्” [ ५।१।२ ] इति वचनाद् मिन् । यथा - "वन्दे सुव्रतनेमिनौ ।" [ इति । तथा--" इदं किल महातीर्थं श्रीनेम्येतस्य नायकः ।" [ ] ॥२॥ षष्ठे गणेशे मण्डितपुत्रोऽपि कथितो बुधैः । ] षष्ठे गणेशे षण्णाम् संख्यापूरणे, गणाधिपे मण्डितनाम्नि । मण्डितस्य—— मण्डितनाम्नः पितुः पुत्रो मण्डितपुत्रः वसिष्ठगोत्रीयः । कथितः - प्रोक्तः, बुधैः विद्वद्भिः । मरुदेव्यपि विज्ञेया युगादिजिनमातरि ॥ ३ ॥ मरुद्भिः - देवैः दीव्यते - स्तूयते मरुदेवी । पृषोदरादित्वात् तलोपः । “नवा शोणादेः” [ २।४।३१] इति विकल्पेन ङीः । विज्ञेया - ज्ञातव्या । युगादिजिनस्य–श्री आदिनाथतीर्थकरस्य माता - जननी युगादिजिनमाता, तस्यां युगादिजिनमातरि ॥ ३ ॥ चक्रेश्वर्यामप्रतिचक्राऽपि चक्रस्य ईश्वरी चक्रेश्वरी श्रीआदीश्वरजिनस्योपासिका, विद्यते प्रति अनुरूपम् - समानं चक्रम् यस्याः सा अप्रतिचक्रा । अजिता च कविभिरजितबला । बलेन न जितेति अजितबला । राजदन्तादित्वात् पूर्वनिपातः । अजितबलैकदेशे अजिता, 'भामा सत्यभामा' 'सेनो भीमसेन' इति न्यायात् । न जीयते स्म केनापीति वा अजिता । कविभिः - विद्वद्भिरुक्ता इति शेषः । द्वितीयश्री अजितनाथजिनस्योपासिका, तन्नाम | श्यामा त्वच्युतदेव्यपि तस्याम् । न 'श्यामा-श्यामवर्णत्वात्, “श्यङ् गतौ” श्यायते स्वामिभक्तिम् इति वा श्यामा । ‘“विलिभिलिसिधीन्धि" [उ. ३४०] इति किद मः । न व्यवते अच्युता । दीव्यतेस्तूयते दीव्यति वाजिनम् इति देवी | अच्युता चासौ देवी च अच्युतदेवी । “पुंवत् कर्मधारये” [ ३।२/५७ ] इति पुंवद्भावः । श्रीपद्मप्रभजिनोपासिका तन्नाम | १. जे. ज. 'नेमी' नास्ति । २. जे. 'मण्डितस्य' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy