________________
हैमनाममालाशिलोञ्छदीपिका
सुतारकोक्ता सुताराऽपि ॥४॥ शोभना तारका अस्याः सुतारका । सुतराम् तरति वा । "तारका-वर्णका" [२ । ४ । ११३] इति निपातनाद णके इत्वाभावः । शोभना तारा अस्याः सुतारा। सुतराम् तारयति भक्तान् विघ्नादिभ्य इति वा । श्रीसुविधिनाथजिनोपासिका तन्नाम ॥४॥
भद्रकृत् तीर्थकृद् भद्रः
भद्रम् मङ्गलम् करोति भद्रकृत्, क्विप् । स चासौ तीर्थकृच्च भद्रकृत् तीर्थकृत् । आगाम्युत्सर्पिण्याम् चतुर्विंशस्तीर्थकरः' तन्नाम । भद्रहेतुत्वात् भद्रः । भद्रम् अस्यास्तीति वा भद्रः । अभ्रादित्वाद् अः । भद्रकर इत्यपि ।
श्रमणः श्रवणोऽपि च । श्राम्यति महातपसा करणाद् इति श्रमणः । "नन्द्यादिभ्योऽनः" [ ५ । १ । ५२] इति अनः । " श्रृंद श्रवणे" "गतौ" इति अन्ये । श्रूयते सर्वलोकानामत्यन्तमान्यत्वेन इति श्रवणः । “तृकशपभृवश्रुरुरुहि" [उ.१८७] इति अणः । साधन्त-साधयन्तौ अपि ।
भद्रे भन्द्रमपि प्राहुः प्रशस्तमपि कोविदाः ॥५॥ ___ "भदुङ् सुखकल्याणयोः" भन्दते भद्रम्, "भन्दे" [उ.३९१] इति रः नलुक् च विकल्पेन, नलोपाभावे भन्द्रम् । “शंसू स्तुतौ च" प्रशस्यते प्रस्तूयते जनैरिति प्रशस्तम् । क्त्वि वेट्त्वात् क्तयोर्नेट । शस्तम् अपि । कोविदाः-पण्डिताः प्राहुःकथितवन्तः । भावित्रम्, सुविदत्रम्, अगः सकारान्तोऽयम्, शुभिः, मयश्च सन्तोऽयम् । यदत्र मौलाभिधानचिन्तामणिनाममालाक्रमव्यत्ययकरणम्, तत्र ग्रन्थकर्तुर्विवक्षाभाव एव हेतुरिति । एवमग्रेऽपि यथास्थानमवसेयमिति ॥५॥
प्रव्रजनं परिव्रज्या
प्रव्रजनम्-प्रवज्या दीक्षा । परि समन्ताद् वजनम्-संसाराद् गमनमिति परिव्रज्या । उभयत्र “आस्यटिवज्यजः क्यप्" [५।३।९७] इति क्यप् प्रत्ययः ।।
शिष्योऽन्तिषदपि स्मृतः । शासनीयः शिष्यः । “दृवग्रस्तुजुषेतिशासः” [ ५।१।४० ] इति क्यपि, "इसासः शास" [४।४।११८ ] इति इस आदेशः । अन्तिके-गुरूणाम् समीपे सीदति-तिष्ठतीति अन्तिषद् । अत्र सदि धातौ क्विबन्ते। “वाऽन्तमान्तितमान्ति
१. जे. तीर्थकरः २. जे. सान्तोऽयम् । ३. प्र. ज. प्रत्योः 'मौलाभिधानचिन्तामणिनाममालामामपाठक्रमापेक्षया मामपाठक्रमव्यत्ययकरणम्' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org