________________
श्रीश्रीवल्लभगणिधिनिर्मिता तोन्तियान्तिषत्" [ ७।४।३१ ] इति कलोपः, सस्य षत्वम् च । पक्षे अन्तिकसद् अपि स्मृतः-कथित इत्यर्थः । दमाहक-माणवौ अपि ।
इति प्रथमकाण्डस्य शिलोब्छोऽयं समर्थितः ॥६॥
इति अमुना प्रकारेण प्रथमकाण्डस्य श्रीहैमनाममालायाः प्रथमप्रक्रमस्य अयमसौ प्रत्यक्षः शिलोञ्छः समर्थितः-प्रकटित इत्यर्थः ॥६॥ इति श्रीमबृहत्खरतरगच्छीयश्रीजयसागरमहोपाध्यायसन्तानीय-वाचनाचार्य श्रीभानुमेरुगणिशिष्यमुख्यश्रीज्ञानविमलोपाध्यायविनेयवाचनाचार्यश्रीवल्लभगणिविर चेतायां श्रीहैमनाममालाशिलोन्छटीकायां प्रथमदेवाधिदेवकाण्डस्य
शिलोञ्छः समाप्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org