SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ द्वितीयो देवकाण्डः। अथ द्वितीयदेवकाण्डस्य शिलोञ्छो विप्रियते. व्योमयानमपि प्रोक्तं विमानं बुधपुङ्गवैः ।। व्योम्नि-आकाशे यानम्-गमनमस्य व्योमयानम् । व्योम्नि-विहायसि यान्तिव्रजन्ति अनेन वा । पुंक्लीबलिङ्गः । विमान्ति वर्तन्तेऽस्मिन् देवा इति विमानम् । पुंक्लीबलिङ्गः । बुधपुङ्गवैः-पण्डितप्रकाण्डैः प्रोक्तम्--निगदितमिति । स्यात्समुद्रनवनीतं पेयूषमपि चामृतम् ॥७॥ समुद्रस्य-क्षीरसागरस्य नवनीतमिव समुद्रनवनीतम् । देश्यामपि । “पां पाने" पीयते पेयूषम् । “कोरदूषाटरूष" [उ. ५६१ ] इति ऊषे निपात्यते । पुंक्लीबलिङ्गः । नास्ति मृतमत्र इति अमृतम् ॥७॥ कथ्यन्ते व्यन्तरा वानमन्तरा अपि सूरिभिः। विविधेषु शैलकन्दरान्तरवनविवरादिषु प्रति वसन्तीति व्यन्तराः । पृषोदरादित्वात् साधुः । वनानां समूहो वानम्, तस्यान्तरे-मध्ये भवन्तीति वानमन्तराः । पृषोदरादित्वात् साधुः । वनान्तरेषु वनविशेषेषु भवा अवर्णागमकरणाद् वा वानमन्तराः। कथ्यन्ते-भण्यन्ते सूरिभिः-पूर्वाचार्य रिति । योतिस्तथा वृष्णिपृष्णी प्रोक्ता रश्म्यभिधायकाः ॥८॥ द्योतते द्योतिः । “किलिपिलिपिशिचिटित्रुटिशुण्ठि" [ उ. ६०८] इति आदिशब्दाद इः प्रत्ययः । “वृषू सेचने" वृष्यते वृष्णिः । “पृषू' सेचने" इत्यस्मादपि इच्छन्ति एके, तन्मते पृष्यते पृष्णिः । उभयत्र "ऋद्धृसूकुवृषिभ्यः कित्' [ उ. ६३५] इति कित् णिः। उभावपि पुंस्त्रीलिङ्गौ । प्रोक्ताः-कथिताः । रश्म्यभिधायकाःकिरणवाचकाः । शिखी, अभीषुः, स्यूमः, राजन्यः, चुनः, सूरः, द्यौत्रम् , आष्ट्रम् , आशित्रम् तालव्यमध्योऽयम् , पपीः च ॥८॥ - समुद्रनवनीतं च विदुश्चन्द्रमसं बुधाः । __ बुधाः-पण्डिताः चन्दति-दीप्यते आह्लादयति वा चन्द्रमाः । 'चन्दो रमस्" [उ. ९८६ ] इति रमस् । तं चन्द्रमसम्- चन्द्रम् । समुद्रस्य क्षीरसागरस्य नवनीत १. जे. पृषु । २. जे. अशितम् । ३. जे. पपी च । * मुद्रितपुस्तके 'चन्दोरमस्' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy