________________
श्रीश्रीवल्लमगणिविनिमिता मिव समुद्रनवनीतम् । तत् विदुः-जानन्ति कथयन्तीति यावत् । देश्याम् अपि अयम् । अमृतनिर्गमः, संस्कृते देश्याम् अपि । रोचन-विरोचनाऽहंसान-मन्दसान-संस्तवानविशेलिमाऽऽदयोऽपि ।
चन्द्रिका चन्द्रिमाऽपि स्यात्
चन्द्रः अस्ति अस्यां चन्द्रिका । "अतोऽनेकस्वरात्" [ ७२।६ ] इति इकः । चन्द्रे निर्वृत्ता चन्द्रिमा । "भावादिमः " [ ६।४।२१ ] इति इमः प्रत्ययः । चन्दति--दीप्यते आह्लादयति वा चन्द्रिमा । "वयिमखचिमादयः" [उ. ३५०] इति इमे निपात्यते । स्याद्-भवेत् । चन्दिर-सुवने अपि ।
इल्वला इन्विका अपि ॥९॥ इलन्ति-गच्छन्ति इल्वलाः, मृगशिरःशिरःस्थाः पञ्च तारकाः । "तुल्वलेल्वलादयः" [उ. ५००] इति वलप्रत्ययान्तो निपात्यते । "इवु व्याप्तौ च" चकारात् प्रीणने, उदित्वाद् नकारागमे इन्वन्ति-प्रीणन्ति व्याप्नुवन्ति विहायसि वा इन्विकाः । 'णके आप्' स्त्रीलिङ्गः ॥९॥
अनूराधाप्यनुराधा
"राधं साधंट् संसिद्धौ” । अनुराधनोति अनुराधा । अनुराधौ, मैत्री । “घञ्युपसर्गस्य बहुलम्' [३।२।८६] इति वा दीर्घः ।
गुरुः सप्तर्षिजोऽपि च । गृणाति-उपदिशति तत्त्वमिति गुरुः, बहस्पतिः। “कगृऋत उर् च"[उ. ७३४] इति कित् उः । सप्तर्षयो मरीचिप्रमुखाः । यदाह--
"मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महातेजाः सप्तमः परिकीर्तितः ॥" तेभ्यो जायते सप्तर्षिजः । अङ्गिरसो मुनेरपत्यत्वात् । “समुदाये प्रवृत्ताः शब्दा एकदेशेऽपि प्रवर्तन्ते” इति न्यायात् ।
सौरिः सौरोऽपि
सूरस्यापत्यं सौरिः-शनिः । “अत इञ्" [६।१।३१] इति अपत्येऽर्थे इञ् । सूरस्यापत्यं सौरः । “ङसोऽपत्ये" [६।१।२८] इति अण् । आदिदन्त्यौ उभौ।
राहुस्तु ग्रहकल्लोल इत्यपि ॥१०॥ अभ्रपिशाचोऽपि तथा १. ने. 'मन्दसान' शब्दो नास्ति । २. जे. 'अनुराधा' शब्दो नास्ति । ३.जे. वर्तन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org