________________
हमनाममालाशिलोम्छदीपिका रहति गृहीत्वा चन्द्रार्को स्वशरीरं वा इति राहुः । “कृवापाजि०" [उ. १] इत्यादिना उण् । “कलि शब्दसंख्यानयोः" ग्रहेषु कल्यते क्रूरग्रहत्वात् इति ग्रहकल्लोलः । "पिञ्छोलकल्लोल." [उ. ४९५] इति ओले निपात्यते । ग्रहेषु कल्लोल इव वा ग्रहकल्लोलः । अभ्रे-आकाशे-पिशाच इव अभ्रपिशाचः। एतौ देश्याम् अपि । रविवैरिभयानकशश्यरयोऽपि ।
नाडिका नालिकाऽपि च । "णल गन्धे" । नलति-अर्दति' नाली । ज्वलादित्वाद् णः। नाल्येव नालिका। डलयोरैक्ये नाडिका । “नडण् अवस्कन्दने" इत्यस्य धातोर्नाडीति नन्दी ।
रात्रौ यामवती तुङ्गी
राति सुखम् रात्रिः । “राशदि." [उ. ६९६] इत्यादिना त्रिः । "इतोऽक्त्यर्थात्" [२।४।३२] इति इयां रात्री इत्यपि। "तिमिरपटलैरवगुम्फिता रात्र्यः" इति । तत्र यामा विद्यन्ते अस्यां यामवती। "तदस्यास्त्यस्मिन्निति मतुः" [७।२।१] । "तमूच् काङ्क्षायाम्" । ताम्यन्ति चक्रवाका अस्यां तुङ्गी । “कमितमिशमिभ्यो डित्" [उ. १०७] इति डित् उङ्गः । देश्याम् अपि । शशिशरीरेश्वरी, किल्विषी, वसिः दन्त्यान्तोऽयम्, मरणी, क्षित्वरी च ।।
निःसम्पातो निशीथवत् ॥११॥ निः-निःशेषार्थे निश्चयार्थे वा । निःसम्पातः-अर्थात् शयनम् अत्र जनानामिति निःसम्पातः । नियतं शेरते अस्मिन् निशीथः । "न्युभ्यां शीङ" [उ.२२८] इति कित् घः । अत एव कात्यो निशीथम् सुप्तजनम् आह । निशीथवत् निशीथ इव । अस्य प्रसिद्धि विवक्षित्वोपमानत्वमुक्तम् । कथम् अवबुध्यते ? उच्यते-यथा निशीथशब्दोऽर्धरात्रवाचकस्तथा निःसम्पातोऽपीति । एवमन्यत्रापि 'वत्' अर्थों व्याख्येयः ॥११॥
तमः स्यादन्धातमसम्
ताम्यन्ति अनेन तमः, अन्धकारः । “अस्" [उ. ९५२] इति अस् । अन्धयति इति] अन्धम् तच्च तत् तमश्च अन्धातमसम् । “समवाऽन्धात् तमसः" [७।३।८०] इति अत् समासान्तः । बाहुलकाद् दीर्घः । सहुरिः, दन्त्यादिरयम्, काणूकम् , छाया, नभाकः, शार्वरम् तालव्यादिरयम्, तुहिनम् , मुहिरम् च ।।
वर्षाः स्युर्वरिषा अपि। १. जे. ज. अर्दयति । २ जे. ज. अवगुण्ठिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org