________________
श्रीश्रीवल्लभगणिविनिर्मिता वियते-छाद्यते नभोऽत्र मेधैरिति वर्षाः । “वृ-कृ-तृ-मीङ्-माभ्यः षः" [उ. ५४०] इति षः । वर्षम् अस्ति आसु वर्षन्तीति वा । नित्यं बहुवचनान्तः स्त्रीलिङ्गश्च । यथा-पर्षत् , परिषत् , मार्षः, मारिषः, आर्भटी, आरभटी इत्यादि, तथा वरिषा अपि ।
खेऽन्तरीक्षम् __ खन्यते खम् । "कचित्" [५।१।१७१] इति डः । “अशौटि व्याप्तौ" । अश्नुते इति वा खम् । “अशेडिंत्' [उ. ८७] इति डित् खः, आकाशम् , तत्र अन्तर्दावापृथिव्योर्मध्ये-ईक्ष्यते-विलोक्यते अन्तरीक्षम् । अन्तर्मध्ये ऋक्षाणि इति वा । पृषोदरादित्वात् साधुः । अनङ्गम् , वृजनम् , भृज्जनम् , गारित्रम् , रोहिषम्, वेष्पः, निवेष्पः एतौ पञ्चमवर्गीयपकारान्तौ । नभसः, वेशन्तः, सूमम्, श्यामम् , खजाकः, पतत्रम् च ।
सांसृष्टिकमपि तत्कालजे फले ॥१२॥ तत्कालजे-तात्कालिके फले-संसृष्टम्-प्रयोजनमस्य सांसृष्टिकम् । "प्रयोजनम्" [६।४।११७] इति इकण् ॥१२॥
मेघमाला कालिकाऽपि
मेघानाम् माला मेघमाला-मेघपङ्क्तिः । काली कालवर्णत्वात् , काली एव कालिका । कालो वर्णोऽस्ति अस्या इति वा । “अतोऽनेकस्वरात्" [७।२।६] इति इकः । कालयति वा । णकः प्रत्ययः । मेघिका देश्याम् ।
__वादलं चापि दुदिनम् । वाराम्-पाथसाम्-दलम् वार्दलम् । देश्याम् अप्ययम् । दुष्टम् दिनम् अत्र दुर्दिनम् । मेघजम् तमः तन्नाम । यद् भागुरि:-"दुर्दिनं ह्यन्धकारोऽब्दैः" इति ।
सूत्रामाऽपीन्द्र
सुष्टु सुतराम् वा त्रायते-पालयति सूत्रामा । “मन्" [उ. ९११] इति मन् । शोभनम् त्राम-बलम् अस्य वा । बाहुलकात् दीर्घः । “इदु परमैश्वर्ये" इन्दति इन्द्रः । “भीवृधि" [उ. ३८७] इति रः, तत्र स्वाराट्-निषड्वरजित्व-पचत-जघ्नु-वल्मित-शैलारि-बलह-वार्वाहवाहा अपि ।
शतारः शतधारोऽपि चाशनौ ॥१३॥ शतम्-बहूनि अराणि-चक्राङ्गानि अस्य शतारः । शतम्-बढयो धारा अस्य शतधारः । अश्नुते-च्याप्नोति-ज्वालाभिः रिपून् इति अशनिः-वज्रम् । पुंस्त्रीलिङ्गस्तत्र "सदिवृत्यमिधभ्यश्यटिकट्यवेरनिः" [उ. ६८०] इति अनिः । दर्वरम् , बिलाहकः, जसुरिः, सृणीकः दन्त्यादिरयम्, सृणिः च दन्त्यादिरयम् ॥१३॥
१.जे. जित्वर ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org