________________
हैमनाममालाशिलो ञ्छदीपिका
आश्विनेयौ स्वर्गवैद्यौ
अश्विन्या अपत्ये आश्विनेयौ । “शुभ्राssदिभ्यः " [ ६ |१|७३] इति अपत्येऽर्थे एय । स्वर्गस्य वैद्यौ स्वर्गवैद्यौ ।
११
हर्यक्षोऽपि धनाधिपः ।
हरि-पिङ्गलम् - अक्षि अस्य हर्यक्षः । “सध्यक्ष्णः स्वाङ्गे” [ ७|३|१२६ ] इति टः प्रत्ययः । पिङ्गलैकनेत्रत्वात् । धनस्याधिपः - स्वामी - धनाधिपः । स्वेश्वरः, बिलः, ऐल:, ईशवयस्य:, ईहावसुः च ।
अजगवमजगावमपि शङ्करधन्वनि ||१४||
3
अजगवः - अस्थिविकारः स विद्यते अस्य अजगवम् । अभ्रादित्वात् अः । अजः -अनुत्पन्नः शाश्वतो वा गौः - वृषभो यस्य सः अजगुः - ईश्वरः तस्य' धनुःआजगत्रम्, अजगवम् वा । " तस्येदम्' [६|३|१६०] इति इदमर्थे अणि आगते तस्य च णित्वविकल्पात् णित्त्वपक्षे वृद्धौ आजगवम् णित्त्वाभावपक्षे वृद्धयभावात् अजगवम् इति रूपसिद्धिरिति एके । “पिनाकोऽजगवं धनुः " [१।१।३७] इति अमरः । अजकवम् अपि । अजगा ग्रहणस्थानम् अस्य अस्ति अजगावम् । “मण्यादिभ्यः " [ ७|२|४४] इति वः । यदाहुः प्राच्याः - " अजगावं धनुः प्रोक्तम्" इति । क्लीबलिङ्गावेतौ । शङ्करस्य - महादेवस्य धन्व - चापम् शङ्करधन्व, तत्र ॥१४॥
गौर्या दाक्षायणीश्वर्यौ
गौरवर्णत्वाद् गौरी - पार्वती तस्याम् । दक्षस्यापत्यम् दाक्षिः, तस्यापत्यं दाक्षायणी । अनन्तरापत्येऽपि पौत्राद्युपचारात् " यञिञः " [ ६ । १ । ५४ ] इति आयन । “जातेरयान्त ०" [२|४|५४ ] इति ङीः । अञ्जते ईश्वरी, "अश्नो [ते]रीच्चादेः [उ. ४४२ ] " इति वरटिङयां सिद्धम् । ईश्वरस्य भार्या वा । "धवाद् योगात् ० " [२|४|५९ ] इति ङीः । सिंहवासा सौरिस्वसा च ।
Jain Education International
नारायणे जलेशयः ।
नरस्यापत्यं नारायणः । नडादित्वाद् आयनण् । यद् वा, नृणातेर्बाहुलकात् कर्मणि घञि, नाराः आपः ता अयनं यस्येति' नारायणः । यन्मनुः - “आपो नारा इति प्रोक्ता, आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं, तेन नारायणः स्मृतः । " [ मनुस्मृति अध्या. १ श्लो. १०] इति । नारम् - अम्मयम् नरसमूहो वा अयनम् अस्येति वा, तत्र । जले शेते जलेशयः । “अः” [उ. २ ] इति अः । “शयवासिवासेष्वकालात्" [ ३/२/२५] इति १. जे. ज. तस्येदम् । २ जे. अस्येति ।
For Private & Personal Use Only
www.jainelibrary.org