________________
श्रीश्रीवल्लभगणिविनिर्मिता
सप्तम्यलोपः । वारिक्षयः, वारीशशायी, श्रीशः, अहिवैरिवाहः, सुरारिहा नन्तोऽयम्, " सहोरः, आशिरः च मध्यतालव्योऽयम् ।
कौमोदकी कौमोदकी
।
कुमोदकस्य विष्णोरियं कौमोदकी । "तस्येदम्" [ ६।३।१६०] इति अण् । कूपोदके भवा कौपोदकी । “भवे" [ ६।३।१२३ ] इति अण् । संहितासु मेण्ठादौ चायं पाठः - " कूपोदकाज्जाता" इति आम्नायः । उभयत्र " अणञेये ०" [२।४।२० ] इति ङीः । कृष्णगदानाम्नी ।
१२
आ ई शब्दौ श्रियां मतौ ॥ १५ ॥ अति अति वा आ । “क्वचित्" [५/१/१७१] इति डः । अस्य विष्णोभई । “धवाद् योगात् ०" [ २।४।५९ ] इति ङीः । ईः इत्यपि । यदाहु:"ई रमा मदिरा मोहे महानन्दे शिरोभ्रमे । स्त्रीलिङ्गोऽयमुणाद्यन्तो नाडतोस्माल्लोपनं सुपः ॥
ई योऽत्र जसा रूपं स्यादमा रूपमीम् शसीः ।" इति ।
आ + ई, इत्यत्र " न सन्धिः " [१|३|५२ ] इत्यनेन सन्ध्यकरणमदुष्टम् । श्रयतीत्येवंशीला श्रीः । "दिद्युद्ददृ० " [५|२|८३] इत्यादिना क्विपि दीर्घो निपात्यते “इतोऽक्त्यर्थात्” [२।४।३२ ] इति ङयां श्रियम् इत्यपि भवतीति दुर्घटे रक्षितः । तस्यां श्रियाम्–लक्ष्म्याम् मतौ - सम्मतावित्यर्थः । एधनुः, आजिहीर्षणिः, यशः, वारीशसूः, वला, सरोरुहावासा, हरिशरीरेश्वरी च ॥ १५ ॥
कन्तुः कन्दर्पे
“कमूङ् कान्तौ” । काम्यते कन्तुः । “कृसिकम्यमिगमितमि०” [ उ.७७३ ] इति तुन् । कम् अव्ययम् कुत्सायाम् । कम् - कुत्सितो दप्र्पोsस्य कन्दर्पस्तत्र श्रेयो, सुहृत्, वर्वरः, वासरः, मुहिरः, वन्द्रः, गदयित्नुः, भिदुः, हयिः, शादः, रमतिः, श्रीसूः, शम्बरारिः च ।
सिद्धार्थः स्रुगते परिकीर्त्तितः । सिद्धोऽर्थोऽस्येति सिद्धार्थ : " । " सर्वे गत्यर्था ज्ञानार्थाः इति वचनात् । शोभनम् गतं-ज्ञानभस्य सुगतः - बुद्धस्तत्र । परिकीर्त्तितः कथितः । मुनीन्द्रैकदेशे मुनिरपि, भीमवत् । “सन्ति पदेषु पदैकदेशाः " इति वचनात् ।
अङ्गे व्याख्याविवाहाभ्यां प्रज्ञप्तिरपि पञ्चमे ॥ १६ ॥
१ जे. नान्तोऽयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org