________________
हैमनाममालाशिलोञ्छदीपिका
पञ्चमे अङ्गे भगवतीनाम्नि विविधा जीवाजीवादिप्रचुरतरपदार्थविषयाः, आअभिविधिना कथञ्चिन्निखिलज्ञेयव्याप्त्या मर्यादया वा परस्परासंकीर्णलक्षणाभिधानरूपया, ख्याः–ख्यानानि भगवतः श्रीमहावीरस्य गौतमादिविनेयान् प्रति प्रश्नितपदार्थप्रतिपादनानि व्याख्यास्ताः प्रज्ञाप्यन्ते - प्ररूप्यन्ते भगवता सुधर्मस्वामिना जम्बूनामानमभि यस्यां सा व्याख्याप्रज्ञप्तिः । अथवा विविधतया विशेषेण वा आख्यायन्त इति व्याख्याः अभिलाप्यपदार्थवृत्तयस्ताः प्रज्ञाप्यन्ते यस्यां सा । अथवा व्याख्यानाम् - अर्थ - प्रतिपादनानाम् प्रकृष्टाः ज्ञप्तयः - ज्ञानानि यस्यां सा व्याख्याप्रज्ञप्तिः । विशिष्टाः वाहाः अर्थप्रवाहाः विवाहाः — सूत्रार्थविचारपद्धतयः इत्यर्थः - तेषां प्रज्ञप्ति :- प्रज्ञापनम् व्याख्यानं यस्यां सा विवाहप्रज्ञप्तिः ॥ १६॥
efष्टपातो द्वादशाङ्गे
“पत्ऌ पथे गतौ” । पतनम् पातः । घञन्तः । दृष्टीनाम् - दर्शनानाम् पातो यत्राऽसौ दृष्टिपातः, सर्वनयदृष्टय इह आख्याप्यन्त इत्यर्थः । तथा चाह - " दृष्टिवादेन दृष्टिपातेन वा सर्वभावप्ररूपणा आख्यायते" [ नन्दिसूत्र पृ० २३८ सू० ५७ आगमो० ] इति । द्वादशानाम् संख्यापूरणं द्वादशम् । द्वादशम् च तदङ्गम् च द्वादशाङ्गम् दृष्टिवादस्तत्र । कल्याणेऽवन्ध्यमपि
कल्याणफलहेतुत्वात् कल्याणम्, तत्र कल्याणे - कल्याणनाम्नि एकादशे पूर्वे । अवन्ध्यफलहेतुत्वात् अवन्ध्यम् । न वन्ध्यं अवन्ध्यम् सफलम् इति वा । तत्र हि सर्वे ज्ञानतपः संयमयोगाः शुभफलेन सफला वर्ण्यन्ते । अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्ते, अतोऽवन्ध्यमिति ।
१३
.... अथ ।
निन्दा गर्दा जुगुप्सा
" णिदु कुत्सायाम्" । निन्दनम् निन्दा | "गर्हि गल्हि कुत्सने" । गर्हणम् गर्हा । उभयत्र स्त्रियाम् "क्तेटो गुरोर्व्यञ्जनात् " [ ५|३ | १०६ ] इति अः प्रत्ययः । गर्दिगर्भावपि । “गुपि गोपनकुत्सनयोः " । जुगुप्सनम् जुगुप्सा । “शंसिप्रत्ययात् " [५/३/१०५] इति अः ।
अथाऽऽक्षारणा रतगालिषु ॥ १७ ॥ “क्षर सञ्चलने" णौ । आक्षारयति आक्षारणा । रते - मैथुनविषये गालयो रतगालयस्तासु, मैथुनमुद्दिश्य गालिषु इत्यर्थः । दूषणेऽपीति एके ।
१. प्रा. प्रतौ 'सफलम् नास्ति । २ प्रा० प्रतौ 'तत्र हि' इत्यतः प्रारभ्य 'भतोऽवन्ध्यम्' इति पाठो नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org