SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीश्रीवल्लभगणिविनिर्मिता "तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति" [१।६।१५] इति अमरः ॥१७॥ समाख्यापि समाज्ञावत् समाख्यानम् समाख्यायतेऽनयेति वा समाख्या इति भागुरिः । समाज्ञायते सम्यक् आ-समन्ताद् अवसीयतेऽनयाऽसाविति समाज्ञा, कीर्तिः । वदर्थः प्राग्वत् सम्भावनीयः । कीर्त्तिनाम्नी । रुशतीवद् रिशत्यपि । "रुशं रिशंत् हिंसायाम्'। रुशति-हिनस्ति परं रुशती हिंस्रा । आश्रयलिङ्गश्चायम्, तेन रुशन्शब्दो रुशद्वच्च इत्यपि । रिशति-हन्ति परम् इति रिशतो। प्राग्वत् आश्रयलिङ्गः । तालव्यमध्यौ । इहापि वदर्थः प्राग्वद् भावनीयः । अशुभवचननाम्नी । काल्यापि कल्या काले-कलासमूहे साधुः काल्या इति कात्याधाः। कलासु साधुः कल्या। उभयत्र "तत्र साधौ” [ ७।१।१५ ] इति यः । शुभवचननाम्नी । सन्धायां समाधिरपि कथ्यते ॥१८॥ सन्धानम् सन्धा । "उपसर्गादातः" [५।३।११०] इति अङ् । समाधानं समाधीयते मनोऽस्मिन् वा समाधिः पुंसि । “व्याप्यादाधारे" [५।३१८८] इति किः । कथ्यते-उच्यते विद्वद्भिरिति गम्यम् । अङ्गीकारनाम्नी ॥१८॥ वीडः शूका मन्दाक्ष्यं च हियाम् । "ब्रीडच् लज्जायाम्" वीड्यते वीडनम् वा वीडः । घञ् प्रत्ययः । पुंलिङ्गः । ऋफिडादित्वाद् लत्वे वोलोऽपि । “शुं गतौ” शवति शूका । "धुयुहिपितुशोर्दीर्घश्च" [ उ. २४ ] इति कित् कः, हूस्वस्य दीर्घश्च । मन्दं च तद् अक्षि च मन्दाक्षम् तदेव मन्दाक्ष्यम् । भेषजादित्वाद् ट्यण् । “हीक् लज्जायाम्" हीयते हीः । स्त्रीलिङ्गः । क्रुत्सम्पदादित्वात् क्विप् । तत्र हियाम् लज्जानाम्नि । ऊहाऽपि चोहवत् । "ऊह वितर्के" ऊहनम् ऊहा । "क्तेटो गुरोर्व्यज्जनात्" [५।३।१०६ इति अः । ऊहनम् ऊहति वा ऊहः । घञ् अच् वा । युक्तिगम्यस्तर्कः । वदर्थः पूर्ववद् भावनीयः । तन्द्रिस्तन्द्री च निद्रायाम् | ___“द्रांक कुत्सितगतौ" कुत्सितगतिः पलायनम् स्वप्नश्च । इन्द्रियाणाम् तननम् द्राति अस्यां तन्द्रिः । “नाम्युपान्त्य." [उ. ६०९] इति कित् 'इ' प्रत्यये पृषोदरा १. जे. सिंहायाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy