________________
हेमनाममालाशिलोञ्छदीपिका दित्वात् साधुः। "तन्द्रिः सादनमोहनयोः" सौत्रः। तन्द्रयते वा तन्द्रिः । पदिपठिपचि०" [उ. ६०७] इति आदिशब्दाद् इः । ['तन्द्रा आलस्ये आदन्तः । तन्द्राति अनया अस्यां वा । “नाम्युपान्त्य०" [उ. ६०९] इति बहुवचनात् कित् इ.]' "तस्ततन्द्रितन्त्र्यविभ्य ई: "[उ. ७११ ] इति 'ई' प्रत्यये तन्द्रीः ईकारान्तोऽयम् । तन्द्रीत्यपि । नियतम् द्रान्ति इन्द्रियाणि अस्यां निद्रा तस्याम् ।
___अहम्प्रथमिकाऽपि च ॥१९॥ अहम्पूर्विकायाम् ।
अहम् प्रथमम् अहंप्रथम इति । अहं प्रथमम् इत्यस्यां अहंप्रथमिका । अहम् पूर्वम् अहंपूर्व इति । अहम् पूर्व इति यस्यां सा अहंपूर्विका । मयूरव्यंसकादित्वात् तत्पुरुषसमासे निपात्यते । निपातनाद् अकञ्यपि वृद्धयभावः । अहमिति शब्दो विभक्त्यन्तप्रतिरूपको निपातः । एवं अहमग्रिका अपि । यदाह गौड:
अहं पूर्वः अहंपूर्व इत्यहपूर्विका स्त्रियाम् । आहोपुरुषिका दर्पाद्या स्यात् सम्भावनात्मनि ॥
अहमहमिका तु स्यात् परस्परमहंकृतिः । इति ।
केलिकिलोऽपि स्याद् विदूषके । केल्या-क्रीडया किलति केलीकिलः । “किलत् श्वैत्यक्रीडनयोः" सन्धि विग्रहेण विग्रहम् च सन्धिना दूषयति विदूषकः-भाण्डः, तत्र ।
मार्षवन्मारिषोऽपि ।
मर्षणात्-सहनात् मार्षः । मृणाति मारिषः । “अमिमृभ्यां णित्" [उ.५४९ ] इति इषः । पर्षत्, परिषत् इत्यादिवद् वा । आर्यनाम्नी ।
___इति शिलोब्छो देवकाण्डगः ॥२०॥ इति अमुना प्रकारेण, यद् वा इतिशब्दः समाप्त्यर्थस्तेन देवकाण्डम् गच्छति देवकाण्डगः- देवकाण्डानुगतः शिलोञ्छः समाप्तः ॥ २० ॥ इति श्रीमबृहत्खरतरगच्छीय श्रीजयसागरमहोपाध्यायसन्तानीयवाचनाचार्यश्रीभानुमेरुगणिशिष्यमुख्यश्रीज्ञानविमलोपाध्यायविनेयवाचनाचार्यश्रीवल्लभगणिविरचितायां श्रीहैमनाममालाशिलोञ्छटीकायां द्वितीयदेवकाण्डस्य
शिलोञ्छः समाप्तः । १-१ प्रा० प्रतौ 'तन्द्रा आलस्ये' इत्यतः आरभ्य 'बहुवचनात् कित् इ:' इतिपर्यन्तः पाठो मोपलभ्यते। २. जे. ज. भण्डः । ३. जे. श्रीजयसागरोपाध्याय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org