________________
आचार्यश्रोजिनदेवसूरिविरचितः
हैमनाममालाशिलोञ्छः वाचनाचार्यश्रीश्रीवल्लभगणिविनिर्मितया 'दीपिका'टीकया सवलितः ।
प्रथमो देवाधिदेवकाण्डः
ऐं नमः । श्रीगुरुभ्यो नमः। श्रीमच्छ्रीफलवद्धिकाभिधपुरीनारीवरोरःस्थली
राजद्धारनिभं प्रणुत्य सततं श्रीपार्श्वनाथं जिनम् । यः शास्त्रेष्वखिलेषु पण्डितजनस्याविष्करोति स्फुटं,
ज्ञानं भानुरिदै प्रहत्य च तमः सर्वेषु सत्कर्मसु ॥ १॥ कुर्वाणा वरशब्दशास्त्रकठिनप्रज्ञानधाराधरै
रज्ञानोद्भुरदाववह्निशमनं या देवता राजते । तस्याः पादयुग प्रणम्य च गुरून् वक्ष्ये शिलोछाभिधे,
. ग्रन्थे वृत्तिमहं विलोक्य विदितां ग्रन्थावली भूरिशः ॥२॥ तत्र प्रथममनेककोविदवन्दारुप्रवरनरवृन्दवन्दितपादारविन्दविलसद्वाग्युक्तिव्यक्तिशक्तिविजितसमस्तप्रशस्तग्रन्थपरमार्थसमर्थावगतपदार्थसार्थश्रीमत्पुरन्दरसूरयस्तर्कव्याकरणसाहित्यालङ्कारच्छन्दोज्योतिषनाटकपेटकप्रमुखानेकग्रन्थकोट्यम्भोनिधयः श्रीमवृद्धतरखरतरगच्छालङ्कारस्फारहारप्रकारसारश्रीजिनप्रभसूरिशिष्यमुख्यश्रीजिनदेवसूरयः, श्रीपूर्णतल्लगच्छगगनाङ्गणदिनमणिप्रगुणगुणगणमणिप्रवरार्णवोपमानश्रीदेवचन्द्रसरिविनेयसभागधेयमहिमामयसकललोकव्यापिनिर्मलकलामण्डलचन्द्रमःप्रतिमकीर्युच्चयश्रीहेमचन्द्राचार्यविरचिताऽभिधानचिन्तामणिनाममालाशिलो छ कर्तुमिच्छवः स्वच्छातुच्छशेमुषीमन्मनीषिसमयपरिपालनायाऽविध्नेन प्रारिप्सितग्रन्थसमाप्तिविधानाय च विशिष्टशिष्टाभीष्टदेवतानमस्कारपुरस्सरं मङ्गलमाचरन्ति । तद् यथा
१. जे. भानुरिवापहृत्य । २. जे. स्वच्छशेमुषी । ३. जे. विशिष्टाभीष्टं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org