Book Title: Haimanamamalasiloncha
Author(s): Jindevsuri, Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 100
________________ हैमनाममालाशिलोग्छदीपिका वनस्पतिः, पलक्षुः, मलक्षुः, स्फिविः, रवणः, अरडः, सरडः, स्यमीकः, नेपः, पीतुः च । त्वक त्वचा "त्वचत् संवरणे" त्वचति सिरामांसादि त्वक् । विवप् । “अमादेः" [२।४।१६] इति आपि, त्वचा । स्तबके पुमः ॥१०॥ गुलुग्छु-लुम्बी स्तूयते स्तबको गुच्छस्तत्र । दकनसृधृवृमृस्तु०" [उ. २७] इति अकः । गुड्यते गुलुञ्छुः । "केवयुभुरण्य्वध्वर्वादयः" [उ. ७४६] 'उ' प्रत्यये निपात्यते । "लुबु तुबुण भईने" लुम्बयति लुम्बिः । “स्वरेभ्य इ:" [उ. ६०६] इति इः । माकन्दरसालावपि चूतवत् । "कदुङ् क्रदुङ् वैक्लव्ये" वैक्लव्यम्-कातरता । वैकल्यम् इति चन्द्रः । मा निषेधार्थकमव्ययम् । मा कन्दते माकन्दः । रसम् अलति रसम् आलाति वा रसालः । च्योतति रसं चूतः । चूण्यत इति श्रीभोजो निरवोचत् । “पुतपित्त." [उ. २०४] इति उते निपात्यते । वदर्थः पूर्ववदवसेयः । मदिरासख-सचेष्ट-कामाङ्गा अपि । यदाह "आम्रचूतो रसालश्च सचेष्टो मदिरासखः । कामाङ्गः सहकारश्च परपुष्टो मदोत्सवः” ॥ किङ्किराते कुरुण्टक-कुरण्डकावपि स्मृतौ ॥१०१॥ कुत्सितम् किरति-क्षिपति किङ्किरातः । “कृवृकलि." [उ. २०९] इति आतक् । किञ्चित् किरातः किङ्किरातः, तत्र । “रुटु स्तेये” को रुण्टति कुरुण्टकः । “को रुरुण्टिरण्टिभ्यः" [उ. २८] इति अकः प्रत्ययः । को रमते कुरण्डः । “पञ्चमाडः" [उ. १६८] इति डः, स्वार्थे के, कुरण्डकः ॥१.१॥ कर्कन्धरपि कर्कन्धौ करोति कर्कन्धः । “कृगः कादिः" [उ. ८४९] इति "डुकंग करणे" इत्यस्मात् ककारादिः अन्धूः प्रत्ययः। यद् वा, कर्को लोहितः अन्धुः, कर्कस्य अन्धुरिव वा कर्कन्धः । “उतोऽप्राणिनश्चायुरज्ज्वादिभ्य ऊ" [२।४।७३] इति ऊङि दीर्घः । सीलिगः । पक्षे कर्कन्धुः, कुवली। पुंस्त्रीलिङ्गोऽयम् । तत्र । उभावपि पृषोदरादित्वात् साधू । स्निग्धपत्रा, राष्ट्रवृद्धिकरी, गोपघोण्टा, स्निग्धच्छदा, च । यदाह इन्द: १. प्रा. प्रतौ वैकल्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170