Book Title: Haimanamamalasiloncha
Author(s): Jindevsuri, Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
७४
श्रीश्रीवल्लभगणिविनिर्मिता क्रुत्सम्पदादित्वात् क्विप् , ततः "क्वौ" [४।४।११९] इति इस आदेशः । पृषोदरादित्वाद् रकारलोपे आशी। यथा-आशीविषः । उभावपि स्त्रियाम् । दंष्ट्रायां सर्पस्येति शेषः ।
निमोके निर्लयन्यपि ॥११६॥ निर्मुच्यते निर्मोकः । घञ् प्रत्ययः । तत्र निर्मोके-सर्पत्वचि । नितरां लीयते अस्यां निर्लयनी । “करणाऽऽधारे" [५।३।१२९] इति अनट् । निहाकोऽपि ॥११६॥
। उक्ताः स्थलचराः पञ्चेन्द्रियाः ।
अथ खचरानाह - विहगे पतत्रिरपि
विहायसा गच्छति विहगः । "नाम्नो गमः खड्डौ च०" [५।१।१३१] इति डः प्रत्ययो विहायसो विहः च, तत्र । पतति-गच्छति पतत्रिः । “पतेरत्रिः" [उ. ६९७] इति अत्रिः । वर्वरीकः, पतेरः, कथेरः, विहडः, तिन्तिडीकः, कवाकः, हीकः, श्येत्यः तालव्यादिस्यम् , रवणः, जर्णः, किकीदिविः, कुक्कणः, मणचः, रुवथः, अणसः, शररैः तालव्यादिरयम् , चपुषः, वारङ्गः च ।
पिच्छं पिञ्छमपि स्मृतम् । पीयते पिच्छम् । “पीपूडो हस्वश्च" [उ. १२५] इति छक् । “गुलुञ्छपिलिपिञ्छैधिच्छादयः" [उ. १२६] इति 'छे'निपातनात् पिञ्छम् । स्मृतम्-कथितम् ।
परपुष्टान्यभृतौ च पिके
परेण पुष्यते स्म परपुष्टः । अन्येन भ्रियते--पुष्यते अन्यभृतः । काकीपुष्टत्वात् । पिबति चूतरसम् पिकः । “पापुलिकृषि०" [उ. ४१] इति किद् इकः । अपि कायति वा पृषोदरादित्वात् । तत्र । घोषयित्नुः, पोषयित्नुः, वञ्चथः, उदिञ्चः च ।
बहिणि बहिणः ॥११७॥ बर्हाणि सन्ति अस्य बहीं, मयूरः तत्र । “शिखादिभ्य इन्" [७।२।४] इति इन् । बर्हाणि सन्त्यस्य बहिणः । “फलबर्हात्०" [७।२।१३] इति इनः । “बह वृद्धौ" बहतीति वा । “दुहृहिदक्षिभ्य इणः" [उ. १९४] इति इणः । मोरः, सहसानः, जीवथः, आपतिकः, मरूकः, कमठः च ॥११७॥
वायसे बलिपुष्टोऽपि
"वयि गतौ" वयते वायसः । “सृवयिभ्यां णित्" [उ. ५७०] इति असः । तत्र । बलिना पुष्टः बलिपुष्टः । अत एव बलिभुक्, वैश्वदेवभागार्हत्वात् । वञ्चथः, काणुकः, नभाकः, वर्विः च ।
१. प्रा. शराटः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |
Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170