SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीश्रीवल्लभगणिविनिर्मिता क्रुत्सम्पदादित्वात् क्विप् , ततः "क्वौ" [४।४।११९] इति इस आदेशः । पृषोदरादित्वाद् रकारलोपे आशी। यथा-आशीविषः । उभावपि स्त्रियाम् । दंष्ट्रायां सर्पस्येति शेषः । निमोके निर्लयन्यपि ॥११६॥ निर्मुच्यते निर्मोकः । घञ् प्रत्ययः । तत्र निर्मोके-सर्पत्वचि । नितरां लीयते अस्यां निर्लयनी । “करणाऽऽधारे" [५।३।१२९] इति अनट् । निहाकोऽपि ॥११६॥ । उक्ताः स्थलचराः पञ्चेन्द्रियाः । अथ खचरानाह - विहगे पतत्रिरपि विहायसा गच्छति विहगः । "नाम्नो गमः खड्डौ च०" [५।१।१३१] इति डः प्रत्ययो विहायसो विहः च, तत्र । पतति-गच्छति पतत्रिः । “पतेरत्रिः" [उ. ६९७] इति अत्रिः । वर्वरीकः, पतेरः, कथेरः, विहडः, तिन्तिडीकः, कवाकः, हीकः, श्येत्यः तालव्यादिस्यम् , रवणः, जर्णः, किकीदिविः, कुक्कणः, मणचः, रुवथः, अणसः, शररैः तालव्यादिरयम् , चपुषः, वारङ्गः च । पिच्छं पिञ्छमपि स्मृतम् । पीयते पिच्छम् । “पीपूडो हस्वश्च" [उ. १२५] इति छक् । “गुलुञ्छपिलिपिञ्छैधिच्छादयः" [उ. १२६] इति 'छे'निपातनात् पिञ्छम् । स्मृतम्-कथितम् । परपुष्टान्यभृतौ च पिके परेण पुष्यते स्म परपुष्टः । अन्येन भ्रियते--पुष्यते अन्यभृतः । काकीपुष्टत्वात् । पिबति चूतरसम् पिकः । “पापुलिकृषि०" [उ. ४१] इति किद् इकः । अपि कायति वा पृषोदरादित्वात् । तत्र । घोषयित्नुः, पोषयित्नुः, वञ्चथः, उदिञ्चः च । बहिणि बहिणः ॥११७॥ बर्हाणि सन्ति अस्य बहीं, मयूरः तत्र । “शिखादिभ्य इन्" [७।२।४] इति इन् । बर्हाणि सन्त्यस्य बहिणः । “फलबर्हात्०" [७।२।१३] इति इनः । “बह वृद्धौ" बहतीति वा । “दुहृहिदक्षिभ्य इणः" [उ. १९४] इति इणः । मोरः, सहसानः, जीवथः, आपतिकः, मरूकः, कमठः च ॥११७॥ वायसे बलिपुष्टोऽपि "वयि गतौ" वयते वायसः । “सृवयिभ्यां णित्" [उ. ५७०] इति असः । तत्र । बलिना पुष्टः बलिपुष्टः । अत एव बलिभुक्, वैश्वदेवभागार्हत्वात् । वञ्चथः, काणुकः, नभाकः, वर्विः च । १. प्रा. शराटः । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy