________________
हैमनाममालाशिलोञ्छदीपिका "नाम्नो गमः खड्डौ च." [५।१।१३१] इति डः । प्लवप्रवंगमौ अपि वानरनाम्नी ॥११४॥ वानायुरपि बातायुः
वानम्-शुष्कम् अयते वानायुः, वानमेति वा । वातमेति वातायुः हरिणः । उभयत्र “कृवापाजि०" [उ. १] इति-उण् । वातमजः, हर्षुलः, रौहिषः, श्येतः, सरासरः, मरूकः च ।
उन्दरोऽपि च मूषके । ___"उन्दप क्लेदने" उनत्ति उन्दरः । “जठरऋकरमकर०" [उ.४०३] इति अरे निपात्यते । “लुष् मूष स्तेये" मूषति मूषकः । “नाम्नि पुंसि च" [५।३।१२१] इति णकः। तत्र । किरिः, मुष्मः, कुषाकुः, कर्वः च । हीकुर्वनबिडालोऽपि
"हीक लज्जायाम्" जिहेतीव आखुवधसङ्कोचेनेति हीकुः । “हियः किद् रो लश्च वा" [उ. ७५०] इति कित् कुः । वनस्य-अरण्यस्य बिडालो वनबिडालः । दरुटः, दरुडः, बिलालः च ।
गोकर्णोऽपि भुजङ्गमे ॥११५॥ गावौ-दृशावेव कौँ अस्य गोकर्णः । भुजेन कौटिल्येन भुज इव वा गच्छतीति भुजङ्गमः सर्पः, तत्र । “नाम्नो गमः खड्डौ च०" [५।१।१३१] इति खः । काणूरः शूदरः, दशेरः, दश्रः, तालव्यमध्याविमौ, सृप्मा, सृत्वा, मर्कः, सूर्पः च दन्त्यादिरयम् ॥११५॥ जलव्यालेऽलीगर्दोऽपि जलस्य व्यालो जलव्यालः । अली-भ्रमर इव गर्दति--शब्दायते अलीगर्दः।
शेषः स्यादेककुण्डलः। श्लिष्यति अस्मिन् धात्रीति शेषः । “श्लिषेः शे च" [उ. ५४३] इति षः । शिष्यत इति वा । शेते अस्मिन् हरिः इत्यन्ये । एकं कुण्डलमस्य एककुण्डलः । आशीराशी च दंष्ट्रायाम्
आशास्यते-हिंस्यते अनया आशीः । यदाह"आशीस्तालगता दंष्ट्रा यया विद्धो न जीवति ।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org