________________
७२
प्रोबीवक्ताभगणिधिनिर्मिता अमरः । वृष्णिः, वरुटः, वरुडः, गण्डयन्तः, अमतिः च ।
- अथ भषकः शुनिः। भषति भुक्कति भषकः । “तिक्कृतौ नाम्नि" [५।११७१]इति अकट । “भष भर्सने" भर्सनम् -कुत्सितशब्दकरणम्, अतो भर्त्सने शब्दकर्मकोऽयम् । शुनति गच्छति शुनिः । “नाम्युपान्त्य." [उ.६०९] इति किद् इः । दशेरः, भटिलः, भण्डिलः, चण्डिलः, लेहडः, गृत्सः च ।
सरमा देवशुन्यां च
सरति गच्छति सरमा । “सृपप्रथिचरि०" [उ.३४७] इति अमः । देवानाम् शुनी देवशुनी, तस्याम् । विशेषवृत्तिरयं सामान्येऽप्यभिधीयते ।
यमरथोऽपि सैरिभे ॥११॥ यमस्य रथो यमरथः । सीयते-बध्यते सैरिभः । “सि-टिकिभ्यामिभः सर- टिटो च" [उ. ३३२] इत्यनेन इमः प्रत्ययः । “पिंगट बन्धने" इत्यस्य दन्त्यादिः, 'सैर' इत्यादेशश्च । सीरिभिः-दान्तै ति सीरिभः, तस्यायमिति वा । “तस्येदम्" [६।३.१६०] इति अण्, तस्मिन् सैरिभे-महिषे गर्वरोऽपि ॥११३॥
पारिन्द्र इव पारीन्द्रः
पारिषु शक्तेषु इन्द्रः पारिन्द्रः ।। पृषोदरादित्वाद् हस्वः । हस्वाभाषेच पारीन्द्रः । सिंहः, नदनुः, मृगेन्द्रः, कपिलाक्षः च । इव शब्दो वदर्थवाचकः ।।
. शरमेऽष्टापदोऽपि च । “शशू हिंसायाम्" शृणाति हस्तिनम् शरभः । “कृशृगृशलिकलि." [उ.३२९] इति अभः, तत्र । अष्टौ पदानि अस्य अष्टापदः । "नाम्नि" [३।२।७५] इति दीर्घः। कर्वरोऽपि । मुगालवच्छृगालोऽपि
सरति गच्छति भयेन सृगालः । “सर्तेोऽन्तश्च" [उ.४७८] इति आलः । असृगाऽऽलीयते, असृग् गिलतीति वा सृगालः । पृषोदरादित्वात् । शणाति शृगालः, तालव्यादिरयम् । “चात्वालकङ्काल." [उ.४ ८०] इति आले निपात्यते ।
प्लवगः प्रवगोऽपि च ॥११॥ प्लवेन गच्छति प्लवगः । प्रवेण गच्छति प्रवगः । प्लवप्रवौ गतिविशेषवाचको।
१. प्रा. अमन्तिश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org