________________
७१
हेमनाममालाशिलोञ्छदोपिका पाणिनीयसूत्रेण वा "मृत् प्राणत्यागे" इत्यस्मात् 'यत्'प्रत्यये मर्य इत्यपि । उष्यतेदह्यते मरौ उष्ट्रः । “सूमूखन्युषिभ्यः किद्" [उ.४४९]इति कित् त्र । तत्र । दीर्घजधः, ग्रीवी, भेरः, धूम्रः च, स्वार्थिके के, धूम्रकोऽपि ।
गोपतो तु शण्ड इत्वर इत्यपि ॥१११॥ गवां पतिः गोपतिः गोवृषः, तत्र | “शमूच् उपशमे" शाम्यति शण्डः । "पञ्चमाइः" [उ.१६८] इति डः । अयनशील एति-गच्छति वा इत्वरः ।। "सृजीणनशषट्वरप्" [५।२।७७] इति वरप् ॥११॥ स्थौरी स्थूर्यपि
स्थूराणाम्-पश्चाज्जङ्घाभागानामिदं स्थौरम्-बलम् तदस्यास्तीति स्थौरी । स्थूराः-जङ्घाप्रदेशाः सन्त्यस्य स्थूरी, पृष्ठवाह्यः । यत्पृष्ठे जलादिकमुह्यते ।।
ककुदे ककुत् कुकुदमित्यपि । ककते ककुदम् । पुंक्लीबः । "ककेर्णिद्वा" [उ.२४३] इति, “ककि लौल्ये" इत्यस्माद् उदः प्रत्ययः । ककते ककुत् । बाहुलकाद् उद् । "कुकि वृकि आदाने" कोकते कुकुदम् । “कुमुदबुदबुदादयः" [उ.२४ ४] इति उदे निपात्यते । वृषभस्कन्धकूटनामानि । नैचिकं नैचिकी च स्यात्
नीचैश्चरति नैचिकम् । “चरति" [६।४।११] इति इकण् “अणजेये." [२।४।२०] इति ड्याम्, नैचिकी। "प्रायोऽव्ययस्य" [७/४/६५] इति अन्त्यस्वरादिलोपः । वृषभशिरोनाम्नी ।
मलिनी बालगर्भिणी ॥११२॥ मलोऽस्त्यस्यां मलिनी । “मलादीमसश्च" [७।२।१४] इति इन् प्रत्ययः । बाला चासो गर्भिणी च बालगर्भिणी । मलिनी बालगर्भिणी [ ]इति माला ॥११२॥ पवित्रं गोमये - पूयतेऽनेन पवित्रम् । "ऋषिनाम्नोः करणे" [५।२८६] इति इत्रः । पवित्रत्वाद् वा । गोः पुरीषम् गोमयम् । पुंक्लीबलिङ्गः । “गोः पुरीषे" [६।२।५०]इति मयट् । गोविट्, तत्र ।
छागे शुभः छ्चति छागः । “गम्यमि०" [उ. ९२]इति गः । तत्र शोभते शुभः । “नाम्युपान्त्य." [६।११५४] इति कः । “शुभच्छागवस्तच्छगलका अजे" [२।९।७६]इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org