SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ७० श्रीश्रीवल्लभगणिविनिर्मिता उपवाह्योऽप्यौपवावे उप-समीपे वाह्यते उपवाह्यः, राजवाह्यो हस्ती । “ऋवर्णव्यञ्जना." [५।१।१७] इति ध्यण् । उपवाह्य एव औपवाह्यः । स्वार्थे अण् प्रत्ययः । अपराऽवरा । अपरभागभवत्वात् अपरा । स्त्रीक्लीबलिङ्गः । "जपादीनां पोवः" [२।३।१०५] इति पस्य वत्वे अवरा । गजस्य पश्चाभागस्तन्नाम्नी । शृङ्खलो निगलोऽन्दृश्च शृणाति बन्धेन शङ्खलः । त्रिलिङ्गः । "श्रो नोऽन्तो हस्वश्च” [उ. ४९८] इति, “शशू हिंसायाम्" इत्यस्मात् खलः प्रत्ययो नकारोऽन्तो हस्वश्च भवति । निगल्यते-बध्यतेऽनेन निगलः। अन्दति-बध्नाति अन्यते वा अन्दूः । “कृषिचमि." [उ. ८२९] इति ऊः । । कक्षा कक्ष्यापि "कष हिंसायाम्" कषति कक्षा । "मावावदि." [उ.५६४] इति सः । कक्षायाम्-मध्यप्रदेशे भवा कक्ष्या, अयं योपान्त्यः । वस्त्रनाम्नी। वाल्हिके ॥११०॥ वाल्हीका वाल्हिकेषु देशे भवो वाल्हिकः, वाल्हिकेषु देशे भवो वाल्हीकः । वाल्हिकदेशोत्पन्नो घोटकः । वल्ग-वागे च "वल्ग गतौ" वल्गति अनेन वल्गः । पुंलिङ्गः । “व्यञ्जनाद् घञ्" [५।३। १३२] इति घञ् । “वा गतिगन्धनयोः" वाति गच्छति अनया वागा । “गम्यमिरम्यजिगधदि०" [उ.९२] इति बहुवचनाद् गः । रश्मिनाम्नी । __ खलिनं च खलीनवत् । "खल सञ्चये च, चकाराच्चलने" खलति खलिनम् । “श्याकठिखलि०" [उ. २८२] इति इनः । पुंक्लीबलिङ्गः । खलति-चलति खलीनम् । “खलिहिंसिभ्यामीनः" [उ.२८६] इति ईनः । वदर्थः पूर्ववदवसेयः । कविकनाम्नी । मयुरुष्ट्रे ___"डुमिनट प्रक्षेपणे" मिनोति मयुः । “मिवहिचरिचटिभ्यो वा" [उ.७२६] इति उः प्रत्ययः । मरौ भवो मर्यः । “भवे" [६।३।१२३] इति यः, मरिशब्दस्य इदन्तत्वात् । “छन्दसि निष्टयंदेवहूयप्रणीयोन्नीयोच्छिष्यमर्य०" [३।१।१२३]इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy