________________
हैमनाममालाशिलोज्छदीपिका इति प्रसिद्धिः। "चुलुम्प उच्छेदे" किञ्चित् चुलुम्पति किञ्चुलुकः । “कञ्चुकांशुकनंशुकपाकुक०" [उ. ५७) इति उके निपात्यते ॥१०८॥
शम्बूका अपि शाम्बूकाः
शाम्यन्ति शम्बूकाः, शाम्बूकाः । “शम्बूकशाम्बूकवृधूकमधूक." [उ. ६१] इति ऊके उभावपि निपात्येते । “शमेोऽन्तो दीर्घश्च वा" स्यात् [उ. ६१ वृत्तौ । शक्षः, अब्जपर्व, कणीचयोऽपि ।
। उक्ता द्वीन्द्रियाः । चतुरिन्द्रियानाह
वृश्चिको द्रुत इत्यपि । "ओवृश्चैत् छेदने" वृश्चति वृश्चिकः । “पापुलिकृषिक्रुशिवश्चिभ्यः" [उ. ४१] इति किद् इकः । “द्रु गतौ" द्रवति द्रुतः । द्रूयते स्म वा । शालकोऽपि ।
भसलो मधुकरोऽली च ।
भासते गुञ्जन् भसलः । “मुरलोरल." [उ. ४७४] इति अले निपात्यते । देश्यामप्ययम् । मधु करोति मधुकरः । “अच्" [५।१४४९] इति अच् । अलति शोभते इत्येवंशीलो अली-भ्रमरः नन्तः अयम्, गदयित्नुःः, रसायुः, रवणः, मधुपः, षट्पदः, षट्चरणः च । सर्वेऽप्येते स्त्रीपुंसलिङ्गाः ।
। उक्तौ चतुरिन्द्रियौ । अथ पञ्चेन्द्रियान् स्थलचर-खचर-जलचर भेदभिन्नान् क्रमेणाह
पिक्को विक्कः "पिजुकि सम्पर्चने" सम्पर्चनम्-मिश्रणम् । पिङ्क्ते पिक्कः । “निष्कतुरुष्कः०" [उ. २६] इति के निपात्यते । “विचूपी पृथग्भावे" विङ्क्ते अवयवान् विक्कः । “विचिपुषि०" [उ. २२] इति कित् कः । विंशतिवर्षों हस्ती ।
करिः करी ॥१०९।। करोति प्रमोदम् करिः । “स्वरेभ्य इ" [उ. ६०६] इति इः । करःशुण्डाऽस्त्यस्य करी । हस्ती, चन्दिरः, कूचः, कुत्रः, वधूलः, वेञ्चुलः, पीलुः, पपीः, शदिः, सद्रिः, मदारः, अङ्गुषः, पीनुः, अन्मतिः, काणूरः च ॥१०९॥
व्यालो व्याडोऽपि
विविधम् आलम्-अनर्थोऽस्माद् व्यालः । व्यडति-हन्तुं समर्थो भवति व्याडः, दुष्टगजः ।
१. प्रा. वञ्चूलः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org