________________
श्रीश्रीवल्लभगणिविनिर्मिता
रिद्धे धान्ये त्वावासितं मतम् ॥१०७॥ . राध्यति स्म रिद्धम् , सिद्धमित्यर्थः । सुसम्पन्नम् इत्येके । पृषोदरादित्वाद् इत्वम् । तस्मिन् रिद्धे धान्ये-सस्ये आ समन्तात् वास्यते-मील्यते स्म आवासितम्निष्पन्नम् ॥१.७॥
हालाहलं तथा हालम् हालेव हलतीति हालाहलम्' । पुंसि, वामनः । क्लीबे लक्ष्यम् । यथा--स्निग्धं भवत्यमृतकल्पमहो कलत्रम् । ..
हालाहलं विषमिवाऽप्रगुणं तदेव ।
एकदेश विकृतस्याऽनन्यत्वात् हालहलोऽपि । यथा"काममपायि मयेन्द्रियकुण्डै-र्यद्यपि दुष्कृतहालहलौघः" । हलति-विलिखति जहारम् हालम् । वा ज्वलादित्वाद् णः । पुंक्लीबलिङ्गावुभौ ।
मुस्तायां मुस्तकोऽपि च । मुस्यति-खण्डयति मुस्ता । त्रिलिङ्गः । "शीरीभूदूमूघृपा." [उ. २०१]. इति कित् तः । तत्र । स्वार्थिके के, मुस्तकम् । पुंक्लोबालङ्गः । यद् अमरः
कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् । [२।४।१५९] यदाह-धन्वन्तरिः... मुस्तमम्बुधरो मेघो घनो राजकसेरुकः । भद्रमुस्तो वराहोऽब्दो गाङ्गेयः कुरुविन्दकः ।
। समाप्तोऽयं वनस्पतिकायः । पृथिव्यादीनेकेन्द्रियानभिधाय द्वीन्द्रियानाहकृमिः क्रिमिरपि
करोति खā कृमिः । "कृभूभ्यां कित्" [उ. ६९०] इति कित् मिः । "क्रम् पाद विक्षेपे" कामति* अपाने कृमिः । "क्रमितमि०" [उ. ६१३] इति कित् इः प्रत्ययः । धातोः अकारस्य च इकारः । शर्शरीकः च । कृमिनाम्नी । स्यमीकः, सीमिकः, करण्डः, सरण्डः, रमठः, मरठः च । इत्यादीनि कृमिजातिनामान्यपि प्रक्रमात् ज्ञेयानि ।
गण्डूपदः किञ्चुलुकोऽपि च ॥१०८॥ गण्ड्वः -ग्रन्थयः पदानि अस्य गण्डूपदः भूलता । यस्य "अलसिक" १. प्रा. हालाहलः । १. प्रा. काम्यति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org