________________
हैमनाममालाशिलोम्छदीपिका
बिसप्रसूनं कमले
बिसात् प्रसूनम् जातं बिसप्रसूनम् । बिसात् प्रसूयते वा । " सूयत्यादि ० " [ ४/२/७० ] इति तयोः तस्य नत्वम् । कम् - अम्भः अलति - भूषयति कमलम् । काम्यते श्रिया वा । " मृदिकन्दि० " [उ. ४६५ ] इति अलः, तत्र ।
कुमुत्कुमुदवन्मतम् ।
कौ मोदते कुमुत् । किप् । कौ मुद्र- हर्षोऽस्य वा । काम्यते वा कुमुदम् । "कुमुद - बुदबुदा०" [उ. २४४] इति उदे निपात्यते । कौ मोदते वा कुमुदम्श्वेतकमलम्। “नाम्युपान्त्य ० " [ ५ | १|५४ ] इति कः । वदर्थः प्राग्वत्, मतम्
सम्मतम् ।
शेपालं च जलनीली
शेते अम्भसि शेपालम् । " शीङस्तलक्पालवालण्वलण्वलाः' 'पाल' प्रत्यये साधुः । जलम् नीलति जलनीली नीलवर्णे ।
६७
""
सानोऽपि सतीनवत् ॥ १०६॥
सीदन्ति अनेन सातनः, सतीनश्च । “दिननग्न ०" [ उ. २६८ ] इति ने निपात्यते । उभावपि त्रिपुटारुयधान्यनाम । वदर्थः पूर्ववद् भावनीयः ॥ १०६ ॥ कुल्मासवत्कुल्माषोऽपि
Jain Education International
[उ. ५०१] इति
कोलति-संस्त्यायति कुल्मासः । दन्त्यान्तः । “कलिकुलिभ्यां मासक् [ उ.५८४ ] इति मास । कुलेन मस्यति परिणमति वा पृषोदरादित्वात् । “कुल बन्धुसंस्त्यानयोः " कोलति कुल्माषः । अर्द्धस्विन्नो यवादिः, धान्यविशेष इति एके मूर्द्धन्यान्तः । " कुलेश्च माषक् " [उ. ५६३ ] इति माषक् ।
वेधुका गवीधुका |
“गुंङ् शब्दे” गूयते गवेधुका, गवीधुका च । “गुङ ईधुकैधुकौ" [ उ. ७४] इत्यनेन पूर्वस्य एधुकः इतरस्य ईधुकः प्रत्ययः । गवा अम्भसा एधते वा गवेधुः । स्त्रीलिङ्गः। “भृमृतॄ०” [ उ. ७१६ ] इति बहुवचनाद् उः, ततः स्वार्थिके के, गवेधुकाहलादनुत्पन्नमन्नम् ।
For Private & Personal Use Only
कणिशं कनिशम्
" कण शब्दे" कर्णाति वातेन कणिशम, सस्यमञ्जरी । “कन दीप्त्यादौ" कनति कनिशम् । उभावपि " कुलिक निकणि ०" [उ. ५३५ ] इति कि 'इश' प्रत्यये साधू । पुंक्लीबलिङ्गौ ।
www.jainelibrary.org