SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीश्रीवल्लभगणिविनिर्मिता फलो बीजपूरः केसरी बीजपूरकः । बीजकः केसराम्लश्च मातुलुङ्गस्तु पूरकः । बीजपूर्णः, अम्लकेसरः, वराम्लः, मध्यकेसरः, कृमिघ्नः, गन्धकुसुमः, शीधुपादपः च । धत्तूर इव धुत्तूरः दधाति पीतवर्ण धत्तूरः । धुनोति धातून् धुत्तरः । उभावपि “सिन्दूरकचूंरपत्तरधुत्तूरादयः" [उ. ४३० वृत्तौ इति ऊरे निपात्येते । “धुवो द्विरुक्तस्तोऽन्तो हस्वश्च" [उ. ४३० वृत्तौ] । उन्मत्तः, कितवः, धूर्तः, मातुलः, मदनः च । यदाह__ धत्तुरकः स्मृतो धूर्तो देवता कितवः शठः । उन्मत्तको मदनकतरुस्तलफलस्तथा । -अमरोऽप्याह उन्मत्तः कितवो धूर्तो धत्तूरः कनकाहृयः । [२।४।७७] मातुलो मदनश्च [२।४।७८] धुधूरोऽपि । यदाह यादवः--उन्मत्तधूर्तधुधूराः । वंशस्त्वक्सार इत्यपि ॥१०४॥ वमति वंशः । “पादावमि." [उ. ५२७] इति शः । त्वचि सारः त्वक्सारः। "अव्यञ्जनात्" [३।२।१८] इति विकल्पेन सप्तमीलप् । कारः, तेजनः च । यदाह-- वंशे त्वक्सार-कार-त्वचिसार-तृणध्वजाः । शतपर्वा यवफलो वेणु-मस्कर-तेजनाः ।। ॥१०४॥ हीबेरं केश-सलिलपर्यायः स्मर्यते बुधैः । जिहेतीव हीबेरम्, वालकम् । “शतेरादयः" [उ. ४३२] इति केरे निपात्यते । केशसदृशत्वात् केशम्, वालः कच इत्यादयः। तृघ्नत्वात् सलिलम् , जलम् । तत्पर्यायः स्मर्यते-कथ्यते बुधैः । यदाह-- वालकं वारि तोयं च होबेरं जलकं रुचम् । केशं वज्रमुदीच्यं च पिङ्गमाचमनं कचम् ।। 'पङ्कजिन्यां कमलिनी सरोजिनी कुमुद्वती ॥१.५॥ - पङ्कजम् अस्त्यस्यां पङ्कजिनी, तस्याम् । कमलम् अस्त्यस्यां कमलिनी । सरोजम् अस्त्यस्यां सरोजिनी । एवं सरोरुहिणी, अम्भोजिनी, अब्जिनी, राजीविनी, अरविन्दिनी इत्यादि । सर्वेऽप्येते "मन्माऽब्जादेर्नाम्नि" [७।२।६७] इति 'इन्' प्रत्यये साधवः । कुमुदम् अस्त्यस्यां कुमुदती । “नडकुमुद०" [६।२।७४] इति इित् मतुः ॥१०५॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy